________________
हितोपदेशः । गाथा - १९० आभ्यन्तरतपसः स्वरूपम् ।।
(६) संलीनता इन्द्रियनोइन्द्रियसंगुप्तता । तत्र रागद्वेषहेतुभ्यो मनोज्ञामनोज्ञशब्दादिभ्यो संहृतव्यापाराणामिन्द्रियाणामात्मन्येव संयोजनमिन्द्रियसंलीनता । तथा आर्त्तरौद्रध्यानपरिहारेण क्रोधादीनामुदयनिरोधः, उदयप्राप्तानां च वैफल्यापादनं नोइन्द्रियसंलीनता ।
२२०
-
तदिदं षट्प्रकारं बाह्यं तपः । बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्, परप्रत्यक्षत्वात्, कुतीर्थिकैर्गृहस्थैश्च क्रियमाणत्वाच्च । अस्माच्च षड्विधादपि तपसः सङ्गत्याग-शरीरलाघव-इन्द्रियविजयसंयमरक्षा-कर्म्मनिर्जरागुणोदयाः ।। १८९ ।।
आभ्यन्तरं तपोऽधिकृत्याह
पायच्छित्तं विणओ वेयावचं तहेव सज्झाओ ।
झाणं उस्सग्गो वि य अब्भिंतरओ तवो होइ । । १९० ।।
`तत्र प्रायो बाहुल्येन चित्तं विशोधना प्रायश्चित्तम्, तच्च दशविधम् । 'आलोचनं प्रतिक्रमणं मिश्र
गाथा-१९० 1. तुला - दशवै. नि. ४८ ।। - पञ्चा. १९ / ३ ।। पञ्चव. गा. ८४६ ।। प्रव. सा. गा. २७१ प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः ।। - यो. शा. प्र. ४ / ९० ।। प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ।। - प्रशम श्लो. १७६ ।
2. तुला - मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारश्चित्तं मलिनयतीति तच्छुद्ध्यर्थं प्रायश्चित्तम्, प्रकर्षेण अयते गच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकस्तेन चिन्त्यते स्मर्य्यतेऽतिचारविशुद्ध्यर्थमिति निरुक्तात् प्रायश्चित्तमनुष्ठानविशेषः । अथवा प्रायो बाहुल्येन व्रतातिक्रमं चेतसि सञ्जानीते चेतंश्च न पुनराचरतीत्यतः प्रायश्चित्तम् । अथवा प्रायोऽपराध उच्यते, स येन चेतसि विशुध्यति तत् प्रायश्चित्तम् ।
प्रायश्चित्तं च दशविधम् - आलोचनम्, प्रतिक्रमणम्, मिश्रम्, विवेकः, व्युत्सर्गः, तपः, छेदः, मूलम्, अनवस्थाप्यता, पाराञ्चितकमिति । तत्राऽऽलोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम् । तञ्चासेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च । आसेवनानुलोम्यं येन क्रमेणातिचार आसेवितस्तेनैव क्रमेण गुरोः पुरतः प्रकटनम् । प्रायश्चित्तानुलोम्यं च गीतार्थस्य शिष्यस्य भवति । स हि पञ्चक- दशक- पञ्चदशक्रमेण प्रायश्चित्तानि गुरुलघ्वपराधानुरूपाणि विज्ञाय यो योऽपराधो गुरुस्तं तं प्रथममालोचयति, पश्चाल्लघु लघुतरं च । अतीचारमुख्यपरिहारेण प्रतीपं क्रमणमपसरणं प्रतिक्रमणं, मिथ्यादुष्कृतसंप्रयुक्तेन पश्चात्तापेन 'पुनरेवं न करिष्यामि' इति प्रत्याख्यानम् । मिश्रमालोचनप्रतिक्रमणरूपम्, प्रागालोचनं पश्चाद् गुरुसन्दिष्टेन प्रतिक्रमणम् । विवेकः संसक्तान्न - पानो-पकरणशय्यादिविषयस्त्यागः ।
व्युत्सर्गेऽनेषणीयादिषु त्यक्तेषु गमनागमन - सावद्यस्वप्नदर्शन- नौसन्तरणोच्चारप्रस्रवणेषु च विशिष्ट: प्रणिधानपूर्वकः कायवाङ्मनोव्यापारत्यागः । तपस्तु च्छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित् तपसा विशुद्धिर्भवति तत् तद् देयमासेवनीयं च । छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् । मूलं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org