________________
२१८
हितोपदेशः । गाथा-१८९ - बाह्यतपसः स्वरूपम् ।।
इदमित्वरम्, यावत्कथिकं तु भक्तप्रत्याख्यान-इङ्गिनीपादपोपगमरूपम् । तत्र भक्तप्रत्याख्यानकवला उपाौनोदर्यम् । षोडश कवला अधौनोदर्य्यम् । प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः स चैकादिकवलैरूनश्चतुर्विशतिकवलान् यावत् प्रमाणप्राप्तात् किञ्चिदूनौनोदर्य्यम् । चतुर्विधेऽप्यस्मिन्नेकैककवलहानेन बहूनि स्थानानि जायन्ते । सर्वाणि चामून्यौनोदर्यविशेषाः । योषितस्तु अष्टाविंशतिः कवला आहारप्रमाणम्, यदाह - "बत्तीसं खलु कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ।।१।। तस्याः पुरुषानुसारेण न्यूनाहारादिकं भावनीयम् । __ (३) तथा वर्ततेऽनयेति वृत्तिभैक्षम्, तस्याः सङ्क्रमणं ह्रासः । तच्च दत्तिपरिमाणकरणरूपम् एक-द्विज़्याद्यगारनियमो रथ्या-ग्रामार्ध-ग्रामनियमश्च । अत्रैव द्रव्य-क्षेत्र-काल-भावाभिग्रहा अन्तर्भूताः ।
(४) तथा रसानां मतुलोपात् विशिष्टरसवतां वृष्याणां विकारहेतूनाम् अत एव विकृतिशब्दवाच्यानां मद्य-मांसमधु-नवनीतानां दुग्ध-दधि-घृत-तैल-गुडा-ऽवगाह्यादीनां च त्यागो वर्जनं रसत्यागः ।
(५) तथा तनुः-कायः, क्लेशः-शास्त्राविरोधेन बाधनं तनुक्लेशः । ननु तनोरचेतनत्वात् कथं क्लेशसम्भव: ? उच्यते शरीर-शरीरिणोः क्षीरनीर-न्यायेनाभेदादात्मक्लेशे तनुक्लेशस्यापि सम्भवात् तनुक्लेश इत्युक्तम् । स च विशिष्टासनकरणेनाऽप्रतिकर्मशरीरत्व-केशोल्लुञ्चनादिना चावसेयः । ननु परीषहेभ्यः कोऽस्य विशेष: ? उच्यते स्वकृतक्लेशानुभवरूपस्तनुक्लेशः परीषहास्तु स्वपरकृतक्लेशरूपा इति विशेषः । __ (६) तथा लीनता विविक्तशय्यासनता । सा चैकान्तेऽनाबाधेऽसंसक्ते स्त्री-पशु-पण्डकविवर्जिते शून्यागारदेवकुल-सभा-पर्वत-गुहादीनामन्यतमस्मिन् स्थानेऽवस्थानं मनो-वाक्-काय-कषायेन्द्रियसंवृतता च ।
इति षट्प्रकारं बहिस्तपो बाह्यं तपः । बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्, परप्रत्यक्षत्वात्, कुतीथिकैर्गृहस्थैश्च कार्य्यत्वाञ्च । अस्मात् षड्विधादपि बाह्यात् तपसः सङ्गत्याग-शरीरलाघव-इन्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति ।। - यो. शा. श्लो. ८९ वृत्तौ ।।
तुला - अथ तपोभेदान् दर्शयन्नाह - 'अणे'त्यादि, (१) - अनशनं-अभोजनं यावत्कथिकेत्वरभेदं, तत्र यावत्कथिकं पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति त्रिधा, तत्राद्यं सर्वथा परिस्पन्दवर्जितप्रतिकर्म चतुर्विधाहारत्यागनिष्पन्नं च, द्वितीयमपि तथैव, नवरमिङ्गितदेशे चङ्क्रमणाद्यपरिहारवत्, तृतीयं तु सप्रतिकर्म त्रिविधचतुर्विधाहारत्यागनिष्पन्नं चेति, इत्वरं पुनश्चतुर्थभक्तादिषण्मासान्तं
(२) - तथोनोदरस्य - स्तोकाहाराभ्यवहारादपरिपूर्णोदरस्य करणमूनोदरिका, सा च द्रव्यतो द्वात्रिंशत्कवलमानपूर्णाहारापेक्षयैकादिकवलन्यूनाहारग्रहणतो- ऽनेकविधा, भावेनोनोदरिका तु कषायत्यागः ।
(३) - तथा वृत्तेः-भिक्षाचर्यायाः सक्षेपणं-अल्पताकरणं वृत्तिसक्षेपणं द्रव्याद्यभिग्रहग्रहणं, तत्र द्रव्यतो लेपकृदेव इतरदेव वा द्रव्यं मया ग्राह्यमित्यादि, एवं क्षेत्रतः स्वग्राम एव परग्राम एव वा एतावत्स्वेव वा गृहेषु यल्लप्स्यत इत्यादि, एवं कालत: पूर्वाह्न मध्याह्नेऽपराह्ने वा, भावतः पुनरुत्क्षिप्तमेव वा निक्षिप्तमेव वा गायतो वा रुदतो वा यल्लप्स्यत इत्यादि ।
(४) - तथा रसानां-दुग्धदध्यादीनां सर्वेषामन्यतरेषां वा त्यागः त्यजनं रसत्यागः । (५) - तथा कायस्य देहस्य क्लेशः-औचित्येन विबाधनं कायक्लेशो वीरासनोत्कटकासनगोदोहिकाशीतवातातप
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org