________________
हितोपदेशः । गाथा-१८८, १८९ - तपसः भेदाः ।। बाह्यतपसः स्वरूपम् ।।
२१७
तदेव द्वैविध्यं द्वादशविधत्वं च दर्शयत्राह -
बाहिर-अभिंतरभेयओ दुहा ते य दो वि पत्तेयं ।
छब्भेया इय एवं बारसभेयं सुएभिहियं ।।१८८।। बाह्याभ्यन्तररूपेण भेदद्वयेन तावत् तपो द्वेधा, तौ च द्वावपि प्रत्येकं षड्भेदौ, इत्येवमेतद् द्वादशभेदं श्रुते समयेऽभिहितम् ।।१८८।। तत्रादौ बाह्यं भेदषट्कं प्रदर्शयन्नाह -
'अणसणमूणोयरिया वित्तीसंखेवणं रसञ्चाओ ।
कायकिलेसो संलीणया य बज्झो तवो होइ ।।१८९।। (तत्र अशनमाहारस्तत्परिहारो अनशनम्, तञ्च नमस्कारसहितादि षण्मासान्तं श्रीमन्महावीरतीर्थे, प्रथमजिनतीर्थे त संवत्सरपर्यन्तम्, मध्यमतीर्थकृत्तीर्थेष्वष्टौ मासान् यावत् ।
गाथा-१८९ 1. तुला - दशवै. नि. ४७ ।। - पञ्चा. १९/१ ।। पञ्चव. गा. ८४५ ।। प्रव. सा. गा. २७० ।।
अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ।। - प्रशमरति गा. १७५ ।। अनशनमौनोदर्यं वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः ।। - यो. शा. प्र. ४/८९ ।।
2. तुला - (१) अशनमाहारः, तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावज्जीविकं च । इत्वरं नमस्कारसहितादि श्रीमन्महावीरतीर्थे षण्मासपर्यन्तम्, श्रीनाभेयतीर्थे तु संवत्सरपर्यन्तम्, मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत् । यावज्जीविकं तु पादपोपगमनेङ्गिनीभक्तप्रत्याख्यानभेदात् त्रिविधम् । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । तत्र सतोऽप्यायुषः समुपजातव्याधिविधुरेणोत्पन्नमहावेदनेन वा देहिना यदुत्क्रान्तिः क्रियते तत् सव्याघातम् । निर्व्याघातं तु - “निप्फाइआ य सीसा गच्छो परिपालिओ महाभागो । अन्भुजओ विहारो अहवा अब्भुजयं मरणं ।।१।। इति दशा-वयःपरिणामे सति त्रस-स्थावररहिते स्थण्डिले पादपवद् निश्चेष्टस्य येन तेन संस्थानेन प्रशस्तध्यानव्यापृतान्तःकरणस्य प्राणोत्क्रान्ति: यावदवस्थितिरिति । तदेतद् द्विविधमपि पादपोपगमनम् । इङ्गिनी श्रुतविहितः क्रियाविशेषः, तद्विशिष्टमनशनमिङ्गिनी । अस्य प्रतिपन्ना तेनैव क्रमेणायुषः परिहाणिमवबुध्य तथाविध एव स्थण्डिले एकाकी कृतचतुर्विधाहारप्रत्याख्यानश्छायात उष्णमुष्णाच्छायां सङ्क्रामन् सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति इत्येतदिङ्गिनीरूपमनशनम् । यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वत्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्ग्राहितनमस्कारः समीपतिसाधुदत्तनमस्कारो वोद्वर्तनपरिवर्तनादि कुर्वाण: समाधिना कालं करोति, तस्य भक्तप्रत्याख्यानमनशनम् । __ (२) अथौनोदर्यम् - ऊनमवममुदरं यस्य स ऊनोदरः, तस्य भाव औनोदर्य्यम् । तञ्च चतुर्धा अल्पाहारौनोदर्य्यम्, उपाध/नोदर्य्यम्, अधीनोदर्यम्, प्रमाणप्राप्तात् किञ्चिदूनौनोदयं च । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः । कवलश्चोत्कृष्टावकृष्टौ वर्जयित्वा मध्यम इह गृह्यते । स चाविकृतस्वमुखविवर-प्रमाणः । तत्र कवलाष्टकाभ्यवहारोऽल्पाहारौनोदर्य्यम् । अर्धस्य समीपमुपार्धं द्वादश कवलाः, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमर्धं भवति, ततो द्वादश
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org