________________
२१६ हितोपदेशः । गाथा-१८६, १८७ - उत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे तृतीयं तपःप्रतिद्वारं ।।
सदा शान्तं स्वान्तं सकलकुविकल्पव्यपगमा - दुपादेयं वाचं मधुमधुरहृद्याक्षरमुचम् । प्रतिप्राणिप्रीतिप्रचयचतुरं चेष्टितमपि,
प्रपद्यन्ते धन्याः परिचरितशीला: प्रतिभवम् ।।२।। इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वर्तिनि उत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे द्वितीयं शीलप्रतिद्वारं
समाप्तमिति ।।१८५ ।। श्रीः ।।। एवमुत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे व्याख्यातं सोदाहरणं द्वितीयं शीलप्रतिद्वारम् । साम्प्रतं क्रमप्राप्तं तृतीयं तपःप्रतिद्वारं प्रस्तावयन्नाह -
सीलं च पणीयाहार - सुह(हि)यदेहस्स दुल्लहं पायं ।
ता देहसोहणकए जहसत्तीए तवं तवसु ।।१८६।। शीलं च पूर्वोपवर्णितं प्रणीताहारसुहितदेहस्य सरसभोजनोपचितगात्रस्य प्राणिनः प्रायो बाहुल्येन दुर्लभं दुष्पालम्, क्वचित् स्थूलभद्रादौ व्यतिरेकस्यापि दर्शनात् प्रायःशब्दोपादानम् । तत् तस्मात् शक्तेरनतिक्रमेण हे शिष्य ! तपो वक्ष्यमाणं तपस्व । किमर्थम् ? इत्याह - देहशोधनकृते । देहस्य शोधनं रसशोषणेन धातूनामपचयः, स च तपसैव भवति । उपचितेषु हि देहधातुषु प्रायः प्रादुर्भवन्ति मान्मथा विकाराः ।।१८६।। साम्प्रतं तपःशब्दस्यैव निरुक्तमाह -
तावेइ जेण कम्मं तविजए जं च सिवसुहत्थीहिं ।
तेणिह तवं ति भनइ तं दुविहं बारसविहं च ।।१८७।। इहास्मिन् जिनप्रवचने तेनेदं तपो भण्यते, यद् यस्मात् कर्म ज्ञानावरणादिरूपं तापयति प्रतनूकरोति, तथा तप्यते परिशील्यते । कैः ? शिवसुखार्थिभिर्मोक्षसुखाभिलाषुकैः, तञ्च द्विविधं द्वादशविधं च वक्ष्यमाणन्यायेन ।।१८७।।
गाथा-१८७ 1. तपस्तु तप्यन्ते रसादिधातवः कर्माणि चानेनेत्यन्वयात्, यदाह - "रस-रुधिर-मांस-मेदो-ऽस्थिमज्ज-शुक्राण्यनेन तप्यन्ते । कर्माणि चाशुभानीत्यतस्तपो नाम नैरुक्तम्" ।।१।। - यो. शा. प्र. ४/८८ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org