________________
२१०
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने सुदर्शनकथानकम् ।।
मुमुचुः खड्गाघातं नृपतिभयाद् यावदस्य ते कण्ठे । स पपात तावदमरप्रसूनमालात्वमापद्य ।।१३७।। अथचकितास्तदशेषंक्षोणीनाथस्यतेतदाचख्युः । सम्भ्रान्तःसोऽपिततः सिन्धुरमधिरुह्यतत्राऽऽगात् ।।१३८ ।। दूरात् प्रसारितभुजः परिरभ्य सुदर्शनं महीनाथः । मन्दाक्षविलक्षमुखः सखेदमिदमब्रवीदेनम् ।।१३९।। दिष्ट्या नासि विनष्टः प्रकृष्टनिजपुण्यपौरुषेण सखे ! । सुचरितदुश्चरितेष्वपि समवर्तिनि मयि विरुद्धेऽपि ।।१४०।। व्यापाद्य पुरुषरत्नं भवादृशं भुवनभूषणमदोषम् । कं प्रतिदर्शयिताहे निजमुखमपवादमलमलिनम् ।।१४१।। पटुकपटनाटिकानां वनितानां वचसि विहितविश्वासाः । पञ्चत्वं पञ्चजना: प्रतिपद्यन्ते किमपवादम् ।।१४२।। कोऽन्यो विना भवन्तं सत्त्वधनो यः स्वमृत्युमादृत्य । रक्षितवानपराधिनमगाधकरुणारसाम्भोधेः ।।१४३।। अलमिह बहुभिर्जल्पैरसमीक्षितकारिणामहं मुख्यः । क्षमिणां त्वमग्रणी: पुनरतः क्षमस्वापराधं मे ।।१४४।। इति बहुविधमभिधायाधिरोप्य तं गन्धसिन्धुरस्कन्धे । निन्ये नृपः स्ववेश्मन्यपनिन्ये दस्युवेषं च ।।१४५।। गन्धाम्बुभिः सुगन्धिभिरभिषिच्य शुचीनि दिव्यदूष्याणि । परिधाप्य भूपतिस्तं स्वभूषणैर्भूषयामास ।।१४६।। अभयागतं च सर्वं पप्रच्छोपांशु तच्छशंसासौ । क्रोधाजिघांसुमेनं निषिषेध पदोनिधाय शिरः ।।१४७।। अथ पार्थिवानुमत्या समस्तनृपककुदमेदुरिततेजाः । स जगाम निजं मन्दिरमुदारमङ्गलगणोद्भासि ।।१४८।। अभया भयेन भर्तुर्मुमोच पाशप्रयोगतः प्राणान् । नष्ट्वा च पण्डितागात् कुसुमपुरं देवदत्तां च ।।१४९।। इतिविपुलशीलसेतु-व्यतिकरतोविपदपांनिधिंतीण् । श्रेष्ठीसुदर्शनोऽभूत्सविशेषंसुस्थितोधर्मे ।।१५०।। स कदाचिञ्चतुरन्तानिविण्णो दीर्घसंसृतिभ्रमणात् । अपुनर्भवाय भेजे जिनमुनिदीक्षामनाकाङ्क्षः ।।१५१।। विहितविविधोपधानः परिशीलितविमलसमयशास्त्रोधः ।सविशेषमविघातप्रयतश्चैकाकितामभजत् ।।१५२।। विहरनप्रतिबद्धः कदापि स जगाम पाटलीपुत्रम् । यत्रास्ति देवदत्तासद्मनि सा पण्डिता पूर्वम् ।।१५३।। सा चैतया पुरैव हि पुंसामुपवर्णनाप्रबन्धेषु । तैस्तैः सुदर्शनगुणैरकुण्ठमुत्कण्ठिताऽस्ति कृता ।।१५४।। स गतो गोचरचर्यां पण्डितया वीक्ष्य दक्षयाऽलक्षि । सम्भ्रमसम्भृतयाऽथ प्रदर्शितो देवदत्तायै ।।१५५।। भक्तया निमन्त्रितोऽसौ भिक्षाव्यपदेशतस्तया गेहे । गणिकासदनमजानन् मुनिरप्योघाद् गतस्तत्र ।।१५६।। द्वाराण्यथो पिधाय प्रकटितवेश्यानुरूपवैदग्ध्या । मधुरैरुपसर्गस्तं कदर्थयामास साऽत्यर्थम् ।।१५७।। दृषदुपक्लुप्त इवासौ न मनागपि विक्रियां ययौ यावत् । निर्विण्णया तयाऽथो सायं तावत् परित्यक्तः ।।१५८।। निरवधिसमृद्धतेजास्तपोविवृद्ध्या तपोनिधिः सोऽथ । गत्वोद्याने तस्थौ रात्रिप्रतिमा प्रतिज्ञाय ।।१५९।। तमथ ददर्श तथास्थितमभया सा व्यन्तरीत्वमापन्ना । प्राग्जन्ममत्सरेण प्रारेभे यातनास्तदनु ।।१६० ।। न द्वेषं प्रतिकूलैर्न रागमनुकूलचेष्टितैस्तस्याः । अभजत मुनिः खरद्युतिसुधांशुधामभिरिवाद्रिपतिः ।।१६१।।
___10. उपांशु अव्य. (उप+अंश्+ड) निर्जन, एकांत, मौन इति भाषायाम् ।
__Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org