________________
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने सुदर्शनकथानकम् ।।
२०९
इति विरचितातिविकट - भृकुटीभीषणमुखी बभाषे सा । रे दुर्विदग्ध ! मधुरैव सर्वथाऽहं त्वया दृष्टा ।।१११।। किमिह बहुभिः प्रलापैरनुकूलां चाटुकारिणीमेवम् । यदि मामरे न भजसे भजसे यममन्दिरं तर्हि ।।११२।। एवं स्थितेऽप्यकम्पितहृदयेऽथ सुदर्शने निजागः सा । गोपायितुं नखाग्रैविलिलेख निजं वपुः पापा ।।११३।। इति पूचकार च हहा पराभवत्येष कोऽपि मां दुष्टः । तच्छ्रुत्वा च ससम्भ्रम-ममिलनथ यामिकास्तत्र ।।११४।। दृष्ट्वा सुदर्शनं तेऽप्यस्मिन्निदमहह नैव सम्भवति । इति चकिताः क्षितिभर्तुळजिज्ञपन व्यतिकरमशेषम् ।।११५।। आकर्ण्य तनरेशः ससम्भ्रमः स्वयमुपागतस्तत्र । अभयाऽप्यवादिताऽपि हि रुदती जगतीशमिदमूचे ।।११६ ।। स्वामिन् यावदिहाहं पूजाकर्मणि भृशं प्रसक्तास्मि । तावत् पिशाचवदसौ प्रविष्ट एवात्र ही दुष्टः ।।११७ ।। अनवाप्य चाटुकोटिभिरभीष्टमेवं व्यचेष्टत च दुष्टः । उदितं मयाऽपि रुदितं बलमबलानां किमन्यदिह ।।११८।। अस्मादिदमतिदुर्घटममृतद्युतिमण्डलादिवोल्कार्चिः । इति पप्रच्छ नरेन्द्रः सुदर्शनं हन्त किमिदमहो ।।११९।। दध्यौ दयापरोऽयं मयोदिते सूनृते म्रियेतासौ । अकृतसुकृता वराकी निपतेदपि दुर्गतिं घोराम् ।।१२०।। उपकारिण्युपकारः क्रियते ननु लौकिकी व्यवस्थेयम् । अपकारिण्युपकारः क्रियते यः स खलु सुकृतः स्यात् ।।१२१।। जिनवचनभावितोऽहंसमाधिमरणेनपरभवगतोऽपि ।प्रायःसुखीभविष्याम्यतोनकिञ्चिद्वदिष्यामि ।।१२२।। इति कृतमौने तस्मिनशङ्कत क्षितिपतिस्तदा दोषम् । प्रायेण पारदारिकचौराणामुत्तरं मौनम् ।।१२३।। आदिक्षदथारक्षान् कोपाटोपेन पाटलितनयनः । उद्भाव्य दोषमखिले पुरेऽमुमारोपयत शूलाम् ।।१२४।। उत्पाटितस्ततोऽसौ क्षितिदयितनिदेशतः पुरारक्षैः । ग्रहकल्लोलाल्लभते क्षणं शशी किमिह नानिष्टम् ।।१२५ ।। मण्डितमुखः स मष्या कृताङ्गरागश्च चन्दनैः शोणैः । करवीरपुष्पमाली धृतसूर्पो रासभारूढः ।।१२६ ।। अन्तःपुरेऽपराधी निगृह्यते ननु सुदर्शन: सोऽयम् । दोषो न नाम नृपतेरिति विहिताघोषणः पुरतः ।।१२७।। भ्राम्यति पुरे स यावत् तावन्मुक्तारवैर्जनैरूचे । नृपतिर्नोचितकारी नास्मिन् सम्भवति दोषोऽयम् ।।१२८ ।। संभ्राम्यमाण एवं पुरतो निजमन्दिरस्य संप्राप्तः । ददृशे च मनोरमया पविप्रहारप्रहतयैव ।।१२९।। अहह सदाचारोऽयं पतिर्मम क्षितिपतिः प्रियाचारः । विधिरत्र दुराचारः केवलमथवा न सोऽपि ननु ।।१३०।। पूर्वभवसम्भृतानां कुकर्मणामेव परिणतिः सेयम् । मम दयितस्योपनता तदस्तु कोऽत्र प्रतीकारः ।।१३१।। हुं ज्ञातमयमुपायः प्रविश्य सदनोदरं शुचिर्भूत्वा । अर्हत्प्रतिमापूजां विधाय विदधे प्रतिज्ञां सा ।।१३२।। भगवत्यो जिनशासनदेव्यः शृण्वन्तु मे प्रतिज्ञातम् । अत्याहितं यदि स्यानिर्दोषस्यापि मे भर्तुः ।।१३३।। त्यक्ताहारा तदहं कायोत्सर्गं न पारयिष्यामि । पतिधर्मविरहितायाः किं मे ननु जीवितव्येन ।।१३४।। इति सङ्कल्पेनास्यां कायोत्सर्गेण निश्चलाङ्गायाम् । निन्युर्वधे नियुक्ताः सुदर्शनं शूलिकाऽभ्यणे ।।१३५।। आरोपयन्ति तस्यां क्लिश्यन्मनसोऽथ यावदेते तम् । शूलाग्रे तावदभूत् सौवर्णं कमलमतिरम्यम् ।।१३६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org