________________
२०८
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने सुदर्शनकथानकम् ।।
कुशकाशालम्बनवत् प्रवाहपतने तथाप्युपायोऽयम् । यदयं पर्वदिनेषु प्रतिपद्य विशेषतो नियमम् ।।८४।। शून्यागारमठादिषु तिष्ठत्येकः ततः कथञ्चिदपि । सञ्चार्यतेऽतिनिभृतं केनापि छद्मना गेहे ।।८५।। अभयाह सुन्दरोऽयं ननु प्रकारः प्रपञ्चिते चास्मिन् ।मम हस्तगतः स्थास्यति कियश्चिरं निर्विकारोऽयम् ।।८६।। मातर्यतस्व तस्मादस्मिन् कार्ये धृतावधाना त्वम् । त्वदुपायस्यासाध्यं नेदं मम कौशलस्येव ।।८७।। स्वीकृत्य पण्डितायां तथेति तत्राथ सावधानायाम् । समुपस्थितं स्वसमये तस्यां पुरि कौमुदीपर्व ।।८८।। पटहाघोषणपूर्वकमुर्वीशः पुरजनानथादिक्षत् । सर्वा सर्वैरप्यनुगम्योऽहं महस्यस्मिन् ।।८९।। तच्छ्रुत्वा हृदि दध्यौ सुदर्शनः किमिदमाः परापतितम् । अयमिह राजादेशश्चातुर्मासिकमितः पर्व ।।१०।। जिनबिम्बानां पूजनमर्हचैत्येष्वथो परीपाटी । समता पौषधमावश्यकानि कथमत्र भावीनि ।।११।। उपदामादाय ततो व्यजिज्ञपद् भूपतेः स्वसङ्कल्पम् । समनुज्ञातस्तस्थौ च भूभुजा भ्रातृकल्पेन ।।१२।। कृत्वा समाहितमनाः पूजाचैत्यायनोपवासादि । धृतपोषधः स सायं चतुःपथे प्रतिमया तस्थौ ।।१३।। ज्ञात्वा च पण्डिता तत् सर्वमुवाचाभयां भवति तेऽद्य । यदि पुनरुपाहितं हृदि किन्तु नृपो नानुगन्तव्यः ।।१४।। सद्यः शिरोविबाधां विधाय साऽप्युत्तरं धराभर्तुः । तस्थौ व्याजविधाने निर्व्याजा योषितां हि मतिः ।।१५।। सान्तःपुरपौरजने वनं गते तदनु मेदिनीदयिते । लेप्यमयीं स्मरमूर्ति निधाय याने पुरुषदेश्यं ।।१६।। आच्छाद्य पण्डितागाद् सिंहद्वारेऽथ यामिकैः पृष्टा । किमिदं गच्छति सापि प्रोचे देवी वनं न गता ।।९७।। अपटुतया देहस्य स्मरादिदेवान् ततो गृहस्थैव । सा पूजयिष्यति ततः प्रतिमेयं याति मदनस्य ।।१८।। अन्येषामप्यास्त्रिदशानामिह समागमिष्यन्ति । तेप्यूचुरिमामेकां दर्शय यायास्ततोऽस्खलितम् ।।१९।। कृत्वा तथेति सागाद् एवं द्वित्रीनिनाय सुरमूर्तीः । अस्खलिताऽथ सुदर्शनमपि निन्ये यानमारोप्य ।।१०० ।। धर्मध्याननिलीनं मुमोच सातं पुरोऽभयादेव्याः । स्मरजीवातूनि ततः प्रारेभे साऽपि चाटूनि ।।१०१।। सुभगा ! स्वामिगमनं ते भाग्यस्त्वमभङ्गरैरिहानीतः । चिररोपितो मनोरथतरुरद्य ममास्तु फलमाली ।।१०२।। अपरिचितेऽप्यसुखार्तेकुर्वीत कृपां भवादृशाःसन्तः ।स्मरविधुरितांत्वदर्थे किंमांनशमयसे कठिन ! ।।१०३।। अत्याहितं यदि स्यान्मम त्वदर्थे तदा तपःकष्टैः । वनितावधोद्भवादपि न पाप्मनो मुच्यसे मूढ ! ।।१०४।। मुञ्च तपोऽतिकठोरं सुकुमारां मामुपास्स्व सुविचार ! । इदमेव फलं तपसः स्वाधीनाः स्युर्यदेणदृशः ।।१०५ ।। इति सा स्वचाटुजल्पैरप्यविकल्पान्तरं तमालोक्य । कोमलबाहुमृणालीद्वयेन परिषस्वजे सपदि ।।१०६।। मण्डलितस्तनमण्डलमालिङ्गनमनु तदङ्गमङ्गानि । विन्यस्य सा स्मरात कदर्थयामास भृशमेनम् ।।१०७।। आविश्चकार यं यं कामस्योद्दीपनाय सा भावम् । स स धर्मध्यानस्य प्रदीपनायार्षभेरभवत् ।।१०८।। जगृहे स तदाऽभिग्रहमस्मान्मे सङ्कटाद् विमुक्तस्य । पारणकमन्यथाऽहं मरणावधि निरशनो जातः ।।१०९।। अभयाऽप्यथोविलक्षादध्योजज्ञे कृशानिशातावत् । तस्माद्यदिनप्रीत्या भीत्याऽपिवशंनयाम्येनम् ।।११०।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org