________________
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने सुदर्शनकथानकम् ।।
२०७
तदतः परं परौकसि कदाचिदेकाकिना न गन्तव्यम् । न प्रत्ययस्य कार्यः स्त्रीवाचि स्वयमनालोच्य ।।६०।। क्रूरासु राक्षसीष्विव नीतिष्विव च प्रपञ्चबहुलासु । चपलासु च विद्युत्स्विव न स्त्रीष्वतिगतिः कार्या ।।६१।। विमृशत्रिति स महात्मा जगाम निजमन्दिरं निरतिचारः । सविशेषधा धर्माप्रमद्वरः समयमनयञ्च ।।२।। अन्येद्युरिन्द्रमहसि प्रवर्त्तमाने वनेऽचलद् भूपः । आर्षभिकपिलोपेतः शशीव गुरुभार्गवानुगतः ।।३।। आरुह्य नरविमानं राज्ञी तत्राऽभया सकपिलाऽगात् । पुत्रैः षड्भिः सहिता मनोरमा चार्षभे: पत्नी ।।६४।। दृष्ट्वा मनोरमामथ विस्मयविस्मरलोचना कपिला । अवदत् केयं धन्या निरुपमरूपा सपुत्रा च ।।५।। अभयोचे किं मुग्धे ! सुदर्शनस्यापि वल्लभामेनाम् । नो वेत्सि भर्तृमित्रस्य तस्य विश्वप्रकाशस्य ।।६६ ।। कपिलोचे यद्येषा सुदर्शनप्रेयसी तदा ह्यस्याः । विपुलं कलासु कौशलमेवं या नन्दनान् सुषुवे ।।६७।। अभया प्राह किमेतत् प्रकाशितं कौशलं त्वयाऽमुष्याः । स्वाधीनभर्तृकाणां स्त्रीणां सुलभो हि सन्तानः ।।६८।। कपिलाप्यवदत् सत्यं स्यादेवं यदि पतिः पुमान् भवति । षण्ढे भर्तरि यदभूदेवं तन्मे महचित्रम् ।।६९।। अभयाह पण्डकत्वं कथमस्याः प्रियतमस्य ते विदितम् । कपिलापि स्वानुभवं सर्वं राज्य तदाचख्यो ।।७०।। उपहस्य साऽवदत् तां षण्ढः स परं परप्रणयिनीषु । अस्यां तु पुष्पकेतुश्छलितासि ततः प्रवीणापि ।।७१।। कपिला प्राह विलक्षा दक्षायां किमधिकं सखि ! त्वयि तत् । यद्यस्ति कौशलं ते सुदर्शनं तद्रमस्व ननु ।।७२।। अवददवनीशपत्नी सविभ्रमं वीक्षितो मयाऽश्माऽपि । भजते मदनोन्मादं सचेतनः किमु पुमान् कामी ।।७३।। नीत्वा वशे सुदर्शनमर्हसि वक्तुं सखि ! त्वमिदमेव । कपिले ! जानीहि मया सुदर्शनं दासतां नीतम् ।।७४ ।। रतिपतिपताकिनीभिर्ललनाभिररण्यवासिनोऽनशनाः । मुनयोऽप्यवतार्यन्ते विषयाध्वनि विषयिणः किमुत ।।७५॥ न करोमि चेद् वशेऽमुंज्वलनं प्रविशामि किं बहूक्तेन । इति ते मिथो ब्रुवाणे वनं गते तदनु सदनं च ।।७६।। अभयाऽथ पण्डितायास्तदेव धात्र्याः प्रतिश्रुतं स्वस्य । कथयामास ततः सा पिधाय कर्णावदोऽवादीत् ।।७७।। पुत्रि ! न सुन्दरमेतत् त्वया प्रतिज्ञातमात्मनोऽनुचितम् । चलति सुमेरुः स्थानात् सुदर्शनो न तु सदाचारात् ।।७८।। ब्रह्माचरणोपनिषनिषण्णमतयः सुसाधवो गुरवः । यस्य स गुरुशीलः सन्नब्रह्म निषेवते किमिति ।।७९।। युवतिज्वलनसमीपे विलीयते मदनमिव मनो येषाम् । ननु तेऽन्ये पविकठिनः सुदर्शनोऽयं महासत्त्वः ।।८।। अन्येऽपि जिनमतज्ञाः परनारी सोदरेति मन्यन्ते । स्वकलत्रमात्रतुष्टः सुश्राद्धशिरोमणिः किमयम् ।।८।। निगृहीतेन्द्रियविकृतिर्यतिरिव गृहवासमाश्रितोऽप्येषः । शक्येत कथय तत् कथमभिसर्तुमथोऽभिसारयितुम् ।।८।। बाहुभ्यामम्भःपतितरणं विधुधारणं च हस्तेन । प्रतिजानीते भुवि यः स सङ्गमोपायमेतस्य ।।८३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org