________________
२०६
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने सुदर्शनकथानकम् ।।
पित्रोरेव न केवलमानन्दकरः सुदर्शनः सोऽभूत् । पुरभर्तुः पौराणामपि निजनिर्मलगुणग्रामैः ।।३३।। भूपतिपुरोधसा सह कपिलेनाकृत्रिमाऽभवत् प्रीतिः । तस्य न कस्य सुधांशुः प्रियाकरः किमुत कुमुदस्य ।।३४।। विपणौ गृहेऽथ गोष्ठे नरपतिसदने दिने च रात्रौ च । अवियुक्तः कपिलोऽभूत् तेन छायेव देहस्य ।।३५ ।। कपिलस्यचास्ति कपिलानाम्नीदयिता निसर्गतश्चफ्ला । सातमुवाचकदाचित्कालमियन्तंनयसि कुत्र ।।६।। सोऽप्यूचे प्रियसुहृदः सुदर्शनस्यान्तिके सदैवास्मि । कोऽयं सुदर्शनो ननुजजल्प कपिलोऽपि तां तदनु ।।३७।। किं नालिकेरवसतेीपात् त्वं नालिके ! समायाता । या वेत्सि नो सुदर्शनमपि विश्रुतमद्धतैश्चरितैः ।।३८।। पुरहूत इव महिम्ना यः कन्दर्पश्च रूपसम्पत्त्या । वाचस्पतिरिव बुद्ध्या शरदिन्दुरिवान्तरविशुद्धया ।।३९।। उन्नतिगुणेन गिरिरिव गम्भीरतया तरङ्गिणीरमणः । चिन्तामणिरिव दानैः सुधेव मधुराक्षरालापैः ।।४०।। गुणरत्नरोहणगिरेवरवणिनि वर्ण्यते कियदथाऽस्य । यस्यैकमेव शीलं तुलनां नाप्नोति केनापि ।।४१।। श्रुत्वा कपिलादेवं कपिला चपलेन्द्रिया स्वभावेन । दधे श्रुतानुरागात् सुदर्शने दर्शनोत्कण्ठाम् ।।४२।। अन्येधुरवनिभर्तुनिदेशतःप्रचलितेक्वचित्कपिले । छलमाप्यचिरात्कपिलासदनेचसुदर्शनस्यययौ ।।४३।। अवदचैनं सुहृदस्तवाद्य केनापि गदविकारेण । महदपटुत्वं वपुषो नाप्नोति कथञ्चनापि रतिम् ।।४४।। तेनैवाहं प्रहिता तवान्तिके त्वां द्रुतं समानेतुम् । आकर्ण्य तदुत्तस्थौ सुदर्शन: सम्भ्रमोद्भ्रान्तः ।।४५।। अज्ञायि मया नायं कष्टं मित्रस्य वेदनातङ्कः । जल्पनिति कपिलगृहं सुदर्शनस्त्वरितपदमाप ।।४६।। क्क नु मेऽस्ति मित्ररत्नं सुदर्शनेनेति जल्पिते कपिला । प्रत्यूचे मध्येगृहमस्तीति विवेश सोऽप्यन्तः ।।४७।। तत्रापश्यन्त्रेनं पप्रच्छ स्वच्छमानस: क्वास्ति । अन्तगर्भापवरकमस्ति निवाते प्रसुप्तोऽयम् ।।४८।। प्रविवेश तत्र यावत् सुदर्शनः सन्निरुध्य तावदसो । द्वाराणि मध्यलीना पृष्टा तेन क्क कपिल इति ।।४९।। कपिलेन किं विधेयंप्रतिजागृहितावदत्रमांकपिलाम् ।किंप्रतिजागरणीयंकपिलाया:सइतितामवदत् ।।५०।। वक्षोजबाहुमूले गभीरनाभिनितम्बजघनानि । सुललितविचलितनेत्रव्याजेन व्यञ्जयन्ती सा ।।५१।। स्मरशरजर्जरिताङ्गीस्खलदक्षरमार्षभिंबभाषेऽथ । कपिलाद्गुणनिवहस्ते यदादि सुन्दर !मयाऽश्रावि ।।५२।। पुष्पायुधस्तदाद्यपि मण्डलितोद्दण्डचण्डकोदण्डः । सुभग ! त्वदेकशरणामशरणवन्मां हहा हन्ति ।।५३।। दिष्ट्या तदद्य सुन्दर ! कपटेनापि प्रवेशितः सदनम् । मदनोन्मादं तन्मे स्वसङ्गमन्त्रेण निगृहाण ।।५४।। दध्यो सुदर्शनोऽपिहिधिधिक्पटुकपटनाटकममुष्याः ।केनव्याजेनाहं कियतींसठ्ठामितो भूमिम् ।।५५।। प्रत्युत्पन्नमतिः स प्रत्यूचे किमिह सुन्दरि ! विरुद्धम् । अनुरागवतां किं पुनरनभिज्ञा त्वमसि मचरिते ।।५६।। आकारमानचित्रे त्वमर्कशलभोपमे मयि प्रीतिम् । प्रतिपन्नासि वृथा नन्वपण्डिते पण्डकोऽस्मि यतः ।।५७।। तच्छ्रुत्वा सहसैव हि विगलितरागा विवृत्य सा द्वारम् । तमुवाच गच्छ गच्छ भ्रान्तास्मि कियचिरमपात्रे ।।५८।। अपचक्रमे त्वरितं कूटाच्छुटितः कुरङ्ग इव सोऽथ । दध्यौ च साधु मुक्तः कियतैव हि दुर्गतिनिपातात् ।।५९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org