________________
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने सुदर्शनकथानकम् ।।
२०५
परिसरभूमावेकं कायोत्सर्गस्थितं निरावरणम् । उपशममिव पिण्डस्थं महामुनिं वीक्ष्य हृदि दध्यौ ।।६।। अहह हिमानीपाते सत्त्वानामशनिपाततुल्येऽस्मिन् । कथमाच्छादनविरहाद् यापयिता यामिनीमेषः ।।७।। इति तस्य मुनेश्चिन्तां चिन्तामणिसनिभा हदि दधानः । शतयामामिव कथमपि स तां त्रियामामतीयाय ।।८।। अविभातायामेव हि स विभावर्यामुपात्तमहिषीकः । समुपेत्य सत्त्वनिलयं तथैव वशिनां वरमपश्यत् ।।९।। परितोषहृषितरोमा संयमिनं यावदयमुपेयाय । द्रष्टुं मुनिमिव तावत् सहस्रकिरणोऽप्युदीयाय ।।१०।। ध्यानावधिसंपूर्तावथ पदमाद्यं नमस्कृतेरुचैः । उञ्चारयन् मुनीन्दुः समुत्पपात द्रुतं नभसि ।।११।। ननु गगनगमनविद्या - पदमेवेति चिन्तयन् सुभगः । निशि दिवसे पथि गेहे गच्छंस्तिष्ठन् शयानश्च ।।१२।। शुचिरप्युच्छिष्टोऽपि हि निविष्टहृदयः स तत्पदं पठति । पशुसहचरितमतीनां विवेकिता तादृशी कास्तु ।।१३।। श्रेष्ठी कदाचिदेनं प्रोचे श्रुतमिदमहो त्वया कस्मात् । तल्लाभवृत्तमखिलं सोऽप्याख्यत् तदनु तुष्टोऽयम् ।।१४।। परमेष्ठिनमस्कारं समस्तमध्याप्य चान्वशादेनम् । भद्र ! न केवलमस्माद् गगनगतिर्मन्त्रत: किमुत ।।१५।। स्वर्गापवर्गयोरपि गतिरस्मादेव देहिनां भवति । किन्तूत्सि(च्छि)ष्टेनाऽयं पठनीयो न त्वया मन्त्रः ।।१६।। व्यसनी व्यसनमिवासौ न मुमोचाऽध्ययनमस्य तु तथैव । व्यर्थः खलूपदेशः कदाग्रहग्रहिलिते मनसि ।।१७।। अन्येधुरम्बुवाहव्यतिकरसुभगांबरासु वर्षासु । महिषीरादाय ययौ स यावदुपनदि ततोऽकस्मात् ।।१८।। जलपूरेणापूर्यत नद्याः श्रोतस्ततः स भीतमनाः । यावत् पश्यति तावत् सैरभ्यः परतटं जग्मुः ।।१९।। आकाशगमनविद्याबुद्ध्याऽथोछारयन् नमस्कारम् । द्रुतमुत्पपात निपपात चान्तरा वारिणि स नद्याः ।।२०।। तीक्ष्णमुखेनाखण्ड्यत खादिरकीलेन हृदयमस्य तदा । परमेष्ठिनमस्कारं मुमोच न तु वेदनातॊऽपि ।।२१।। मर्मणि निहतः कीलेन तेन स विपद्य पञ्चपदशरणः । अर्हदासीकुक्षावुत्पन्नस्तनयभावेन ।।२२।। तार्तीयिके मासे समजनि गर्भानुभावतस्तस्याः । जिनपतिपूजनमुनिजनदानादौ दोहदः प्रवरः ।।२३।। कल्पद्रुम इव सद्यः श्रेष्ठी तदखिलमकारयत्तुष्टः । सम्पूर्णदोहदोऽस्या गर्भ: शुभसंभृतिर्ववृधे ।।२४।। मासेषु नवसु दिवसेषु चार्द्धनवमेषु सा व्यतीतेषु । ग्रहनिवहे शुभशंसिन्युदयिनि कामं मुहूर्ते च ।।२५।। मलयमही चन्दनमिव नन्दनवनमेदिनीव मन्दारम् । अर्हद्दासी सुषुवे शुभलक्षणलक्षितं तनयम् ।।२६।। वर्धापनके श्रेष्ठी मासप्रमिते प्रवर्त्तमानेऽथ । शुभदर्शन इति तनयं नाम्नाऽपि सुदर्शनं विदधे ।।२७।। न्यायोपात्तं धनमिव सुक्षेत्रारोपितं च बीजमिव । धर्म इव शुद्धचित्ते ववृधेऽथ सुदर्शन: क्रमशः ।।२८।। दिनपतिरिव मध्याह्ने विमुक्तबाल्यः क्रमादृषभतनुजः । सुविशुद्धया स बुद्ध्या भेजे क्षमयेव जैनमुनिः ।।२९।। स कलापीव कलापं कलाकलापं कुलोचितमवाप्य । सविशेषमेव शुशुभे वलक्षपक्षे सुधांशुरिव ।।३०।। वनमिव वसन्तलक्ष्मीगंगनं ज्योतिस्ततिश्च सायमिव । मदकलमिव मदलेखा तारुण्यश्रीरमुं भेजे ।।३१।। वयसा कुलेन रूपेण गुणगणेः संज्ञया स्वभावेन । कन्यां मनोरमामथ परिणिन्ये ऋषभदत्तसुतः ।।३२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org