________________
२००
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने श्रीराजीमतीकथानकम् ।। .
अर्थस्ते कियतार्थेन लक्षणेति तयोदिते । आचचक्षे पुनर्भिक्षुः क्व लक्षं भक्ष्यभक्षिणाम् ।।१०१।। क्लेशे प्रपातयाम्येनमिति सा तं पुनर्जगौ । नेपालं गच्छ तत्रास्ति भूपाल: श्रावकः किल ।।१०२।। सोऽपूर्वमुनये दत्ते लक्षाघु रत्नकम्बलम् । श्रुत्वैवं सोऽप्यगात् किं न कुर्युः कामविडम्बिताः ।।१०३।। दिनैः कतिपयैः प्रातः कृतकृत्यस्ततो मुनिः । प्रयत्नगोपितं तस्यै हृष्टोऽदाद्रत्नकम्बलम् ।।१०४।। चिक्षेप तत्क्षणं वोंगृहश्रोतसि साऽथ तम् । तद् दृष्ट्वा मुनिरप्येनां सविषादमदोऽवदत् ।।१०५ ।। प्राप्त क्लेशशतैरेनं प्रत्यूहशतपालितम् । रत्नकम्बलमेवं किं विनाशयसि बालिशे ! ।।१०६।। लब्यावकाशा कोशापि मुनिमूचे स्मितानना । एतज्जानासि यत् ज्ञेयं तन्न जानासि किं मुने ! ।।१०७।। वोगृहसमा साऽहं व्रतं ते रत्नकम्बलः । कष्टात् प्राप्तं पालितं च विनिक्षिपसि किं मयि ? ।।१०८।। वचसा तेन कोशाया मन्त्रेणेव महौजसा । शशामास्य मुनेः सद्योऽप्यपस्मारः स्मरोद्भवः ।।१०९।। साधु साधु महाभागे ! बोधितोऽहं त्वयाऽधुना । विषमेषुविषावेग - मूर्छितः स्ववचोऽमृतैः ।।११०।। धीरेण स्थूलभद्रेण का स्पर्धा विक्लवस्य मे । स्थिरेण सुरशैलेन तूलपूलस्य का तुला ।।१११।। मिथ्यास्तु दुष्कृतं तन्मे दुर्ध्यानस्यास्य मिमितः । अनुमन्यस्व गच्छामि गुरुं त्वमपि मे गुरुः ।।११२।। इति संप्रतिपन्नं तं क्षमयित्वा महामुनिम् । सा प्रणम्य च वर्षान्ते विससर्ज कृताञ्जलिः ।।११३।। आलोच्य दुष्कृतं सोऽपि गुरुमूले निजं मुनिः । क्षमयित्वा स्थूलभद्रं संयमे सुस्थितोऽभवत् ।।११४ ।। स्थूलभद्रचरित्रैस्तैः प्रबोध्य रथकारकम् । कोशापि सुस्थिता धर्मे क्रमात् सुगतिमासदत् ।।११५।। चरणविटपिमूलं पालयित्वेति शीलम्, सकलसमयकोशं भद्रबाहोः प्रपद्य । गणधरमहिमानं प्राप्य च स्वायुषोऽन्ते, त्रिदिवपदमुदारं स्थूलभद्रः प्रपेदे ।।११६ ।। देशितं लेशतः स्थूलभद्रचरितम् । साम्प्रतं राजीमतीज्ञातमुच्यते - ।। श्रीः ।।
॥ शीलप्रतिपालने श्रीराजीमतीकथानकम् ।। अत्थित्थ लवणजलनिहि - लहरिलिहिज्जंतकंतपायारा । सिरिवारवई नयरी सुरवइविणिउत्तधणयकया ।।१।। तत्थ य वेयड्डनगिंदकंदरापयडपसरियपयावो । सिरिनवमवासुदेवो कन्हो नामेण नरनाहो ।।२।। पढमस्स दसाराणं समुद्दविजयस्स नंदणो तत्थ । बावीसमतित्थयरो अरिट्ठनेमी वसइ कुमरो ।।३।। तत्थेव जायवकुले तणुब्भवो भोयवह्निणो वसइ । वगंतउग्गसेणो राया सिरिउग्गसेणु त्ति ।।४।। पइपिम्मविडविपीऊससारणी धारणी पिया तस्स । अइमुत्तकंससिरिसञ्चभामपमुहो य संताणो ।।५।। अवराइयाउ चविऊण पुव्वभवजसमईसुरो तइया । धूयत्ताए धारिणिदेवीकुच्छीइ ओइन्नो ॥६॥ सम्माणियदोहलया पडिपुत्रदिणेसु सोहणमुहुत्ते । लक्खणलंछियगाया जाया वरकन्नगा तत्तो ।।७।।
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org