________________
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने श्रीस्थूलभद्रकथानकम् ।।
१९९
अङ्गभङ्गोपदेशेन तेन मध्यस्य तानवम् । सीत्कारिणीव दशनैर्ददंश दशनच्छदम् ।।७४।। नीवीनिबिडनव्याजाद् गम्भीरं नाभिमण्डलम् । रतेरिव निधानं सा सोरुमूलमदर्शयत् ।।७५।। कराङ्गुलीदलस्फोट - कर्णकण्डूतिजृम्भणैः । निःश्वासशुष्करुदितैर्हावभावानभावयत् ।।७६ ।। स्मरसञ्जीवनरेवं भावैरस्याः शरीरजैः । ग्रावाणोऽपि हि भिद्यन्ते किं पुनश्चेतनो जनः ।।७७।। स्थूलभद्रे स्मरव्यालवैनतेये तु ते तदा । मुद्गशैले जलानीव नाभूवन् कार्यकारिणः ।।७८।। अनुकूलानुपसर्गान् कारं कारं दिवानिशम् । निर्विना स्वयमेवासौ मुनिमेवं व्यजिज्ञपत् ।।७९।। नखोल्लिखनवद् वज्र वज्रकर्कशमानसे ! । त्वय्यऽभूद् विफलोऽयं मे निखिलोऽपि ह्युपक्रमः ।।८।। अतस्त्वमेव धन्योऽसि स्तुत्यं वृत्तं तवैव हि । त्वयैव रत्नगर्भा भूः मनोभवमदापह ! ।।१।। अनुरक्तां पूर्वभुक्तामेकामेको निशान्तरे । कोऽन्यः किरति मामेवं त्वामृते दुर्द्धरव्रत ! ।।८।। अज्ञानचेष्टितं तन्मे क्षमस्व क्षमिणां वर ! । नातः परमहं किञ्चित् प्रतिकूलं करोमि ते ।।८।। प्रशान्तां तामिति मुनिः करुणावरुणालयः । विषयग्रामवरस्यं प्रकाश्य प्रत्यबोधयत् ।।८४।। सम्यक् सम्यक्त्वमूलानि व्रतानि गृहिणामसौ । जग्राहाभिग्रहं भूपाभियुक्तादितरे नरे ।।८५।। अनुग्रहात् मुनेस्तस्य शान्तमिथ्यापथग्रहा । एवं सुश्राविका जज्ञे कोशावेश्याऽपि सा तदा ।।८६।। इतस्ते मुनयः सिंहगुहासर्पबिलावटान् । पयोदसमयप्रान्ते परित्यज्याययुर्गुरुम् ।।८७।।। आसनादुत्थितैः किञ्चिदेते दुष्करकारकाः । इत्यालापसुधावृष्ट्या गुरुभिस्तेऽभिनन्दिताः ।।८८।। तीर्णः प्रतिज्ञापाथोधेः स्थूलभद्रोऽपि कार्तिकीम् । राकातिथिमतिक्रम्य जगाम गुरुसन्निधौ ।।८९।। सुहिताङ्गममुं नित्यप्रणीतरसभोजनात् । दृष्ट्वा ससंभ्रमं दूरमुत्थाय गुरवोऽवदन् ।।१०।। एह्येहि वत्स ! लोकेऽस्मिन्नतिदुष्करकारक । स्थूलभद्रमहासाधो ! स्मरापस्मारहारक ! ।।११।। तच्छ्रुत्वा मुनयो दध्युः पूर्वाभिग्रहिणो हदि । अहो लोकस्थिती प्रीतिः कापि धर्मवतामपि ।।१२।। दुष्करं किमसौ चक्रे नित्याशी चित्रवेश्मगः । हुं ज्ञातमथवा मन्त्रिपुत्रोऽयमिति कीर्त्यते ।।१३।। इतीर्थ्याकलुषेष्वेषु विहरत्सु तथैव हि । वर्षाकालो द्वितीयोऽपि क्रमेण समुपाययौ ।।१४।। ततः सिंहगुहासाधुः स्थूलभद्रगतेय॒या । गुरून पप्रच्छ वर्षासु स्थातुं कोशानिकेतने ।।१५।। अनिर्वाहं विदन्तोऽमी तूष्णीं यावदवस्थिताः । तावदौत्सुक्यनुनोऽयमगमद् गणिकागृहम् ।।१६।। वसतिं याचिता तेन ददौ पूर्ववदेव सा । दध्यौ च स्थूलभद्रस्य मत्सरेणायमाययौ ।।९।। द्रष्टव्यमस्य तद् धैर्यमिति सा विभ्रमैकभूः । विलासकणिकामेकामाविश्चक्रे मुनि प्रति ।।१८।। तावतैवोल्लसद्भूकं दृष्ट्वा यावद् ययौ निशि । विसृज्य लज्जां मुनिना भोगार्थं तावदर्थिता ।।१९।। बोधयाम्यमुमित्येषा बभाषे स्वकुलोचितम् । पणस्त्रियो वयं मुग्ध ! स्वाधीना धनिनां परम् ।।१००।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org