________________
१९८
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने श्रीस्थूलभद्रकथानकम् ।।
यथैवानुगृहीतोऽयं जनः स्वैर्दर्शनामृतैः । कृत्यादेशेन केनापि तथैवाश्वनुगृह्यताम् ।।५०।। स्थूलभद्रोऽब्रवीद् भद्रे ! त्वदा'ऽऽक्रीडवनालये । वर्षासु स्थातुमिच्छामि तवाबाधा न चेद् भवेत् ।।५१।। प्रत्यूचे नाथ ! सर्वस्वनाथेनेदं किमीरितम् । प्राणा यस्य वशे तस्य बाह्यवस्त्वर्थना वृथा ।।५२।। अनुज्ञातस्तयैवं स गृहोपवनसंश्रयम् । विलाससदनं तस्या भेजे संयमिनां वरः ।।५३।। भोजनावसरे प्राप्ते प्रार्थितः स तयाऽग्रहीत् । सर्वेन्द्रियाह्लादकरमाहारमपि तद्गृहे ।।५४।। व्रताधारस्य देहस्य दत्ताधारे मुनीश्वरे । धर्मध्याननिलीनेऽथ कोशा चेतस्यचिन्तयत् ।।५५।। मनो मे हृतमेतेन पूर्वमस्यापि तन्मया । धनैर्गृहमिवापूरि हृदयं चास्य मे गुणैः ।।५६।। विमुक्तगुरुगच्छः सत्रेकाकी मद्गृहालयः । सरसाहारसक्तश्च विरक्तः प्रायसो व्रते ।।५७।। केवलं लजया भावं नाविर्भावयति स्वकम् । अहमेवापनेष्यामि व्रीडावरणमस्य तत् ।।५८।। विचिन्त्येति चिरं सायमेव योषाजनोचितम् । विहितोदारशृङ्गारा शृङ्गाररसवाहिनी ।।५९।। पुष्पाङ्गरागताम्बूलप्रभृतिप्राभृताञ्चिता । क्षोभाय स्थूलभद्रस्य स्थूलबुद्धिरथाचलत् ।।६० ।। युग्मम् ।। ददर्श च मुनिं दूरादन्तर्मुखविलोचनम् । मथिते मन्मथे जेयः कोऽन्तरारिष्वितीक्षितुम् ।।६१।। लुठन्ती मुनिपादान्ते सालसं शुशुभेऽथ सा । भल्लीवात्मभुवो व्यस्तपतिता मुनिहुङ्कत्तेः ।।६२।। ससंभ्रमं स्नेहग सोपालम्भमथो मुनिम् । गणिकाग्रामणीरेषा वक्तुमित्युपचक्रमे ।।६।। दिष्ट्याद्य नाथ ! दृष्टोऽसि दृशोरमृतदृष्टिवत् । सृष्टिरद्य मम श्लाघ्या जघन्याऽप्यघनाशन ! ॥६४।। विहाय मामशरणामेकां विरहविक्लवाम् । इयत्कालं परिभ्रान्तः क्व प्राणेश ! कृशोऽसि किम् ।।६५।। तक्षितं मे वपुस्तीक्ष्णैः कृशमस्तु स्मराशुगैः । तव निष्ठुरचित्तस्य कृशत्वे हेतुरस्ति कः ॥६६॥ योषिदन्तरचिन्ता वा चित्ते तत्र गतो न किम् । धिगयं मेऽथवा जल्पः कल्पद्रुरसि जङ्गमः ।।६७॥ तथापि नाथ ! रुष्टास्मि मां विप्लाय गतस्तदा । दृष्ट्वा नरेन्द्रमेषोऽहमागतोऽस्मीति यत् किल ।।६८।। यदि वाऽलमुपालम्भैर्भाग्यैर्मे त्वमिहागतः । निर्वापय वियोगाग्निमतः स्वैः सङ्गमामृतैः ।।६९।। इति चाटूक्तिपीयूषकुल्याभिः प्लावितोऽप्यलम् । ववृधे तस्य धीरस्य धर्मध्यानधनञ्जयः ।।७०।। स्मरज्यारवतुल्येषु व्यर्थीभूतेषु चाटुषु । आविश्चक्रे विकारोघान् “रूपाजीवाङ्गिकानथ ।।७१।। दृढमेव दृढीकर्तुं धम्मिल्लं माल्यगर्भितम् । उत्क्षिपन्ती भुजलते सा दोर्मूलमदर्शयत् ।।७२।। सजयन्तीव कूर्पाससन्धिबन्धनजालिकाः । साक्षाचक्रे मुमुक्षोः सा वक्षः पीनोन्नतस्तनम् ।।७३।।
3. आक्रीड - आक्रीडन्तेऽस्मिन्नाक्रीडः । क्रीडोद्यान, प्रमदवन इति भाषायाम् । - अभि. स्वो. ना. श्लो. ११११ ।। 4. रूपाजीवा - रूपं सौन्दर्यमाजीवो यस्याः अथवा रूपेणाऽऽजीवति रूपाजीवा । वेश्या इति भाषायाम् ।
- अभि. स्वो. ना. श्लो-५३२ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org