________________
हितोपदेशः । गाथा - १८५ शीलप्रतिपालने श्रीस्थूलभद्रकथानकम् ।।
-
राजन् ! गृहीता मुद्रेयमलं मे मुद्रयाऽन्यया । इदमालोचितं धर्मे भूयास्त्वमपि तत्परः ।। २७ ।। साधु साधु त्वया साधो सुपर्यालोचितं कृतम् । इति हर्षाद् ब्रुवाणेन प्रणेमे स महीभुजा ।। २८ ।। धर्मलाभाशिषं दत्त्वा सत्त्वाबाधाविवर्जिते । पथि प्रतस्थे स्थिरधीः स्थूलभद्रस्ततः ततः ।। २९ ।। विप्लाव्यास्मानसौ वेश्याऽवसथं न प्रयास्यति । इत्यालोकगतेनो-रालुलोके महीभृता ।। ३० ।। दुर्गन्धशबसान्निध्येऽप्यविकूणितनासिकः । स पुद्गलपरीणाम - विज्ञस्तेनैक्षि सञ्चरन् ।। ३१ ।। नीरागं तमथो ज्ञात्वा पिप्रिये पृथिवीपतिः । गत्वा सम्भूतपादान्ते स्थूलभद्रोऽप्यधाद् व्रतम् ।।३२।। सामाचारीप्रवीणोऽथ निरपेक्षो वपुष्यपि । दुस्तपं स तपस्तेपे कर्म्मकक्षाशुशुक्षणिम् ।। ३३ ।। कियत्यपि गते काले शकटालात्मजो मुनिः । आययौ पाटलीपुत्रं विहरन् गुरुभिः सह ||३४|| तदा प्रववृते तत्र त्रासितप्रोषिताङ्गनः । अनङ्गरङ्गजीवातुः क्रमप्राप्तस्तपात्ययः ।।३५।। प्रणिपत्याथ सम्भूतविजयं मुनयस्त्रयः । गृहीत्वा दुर्ग्रहान् जग्मुः पृथग् पृथगभिग्रहान् ।। ३६ ।।
सिंहगुहामेकस्तेषु सपबिलं परः । तृतीयः कूपमण्डूकं चतुर्मासीमुपोषिताः ।। ३७ ।। द्वयोस्तप:प्रभावेन शान्तौ पारीन्द्रपन्नगौ । अप्रमत्ततयाऽन्यस्य मुमुदे जलदेवता ||३८|| ततश्च स्थूलभद्रोऽपि सम्भूतविजयं गुरुम् । गुरुभक्त्या नमस्कृत्य कृताञ्जलिरदोऽवदत् । । ३९।। भगवद्भिरनुज्ञातः प्रणीतरसभोजनः । वर्षासु स्थातुमिच्छामि कोशावेश्मन्यहं प्रभो ! ।। ४० ।। ज्ञात्वाऽस्य प्रणिधानेन योग्यतां रागनिग्रहे । तेनानुज्ञा ददे धुर्ये धुरमारोपयेन्न कः ।।४१।। स मुनीन्दोस्तदादाय वचनं शकुनोपमम् । ययौ कोशागृहं साऽपि समायान्तं ददर्श तम् ।। ४२ । अचिन्तयच भग्नोऽयं नूनं व्रतमहाहवात् । सस्मार तेन मां विन्ध्यावनीमिव मतङ्गजः ।।४३।। भोगलालितमेतस्य सुकुमारं स्वभावतः । वपुः क्व सहते कष्टं 'कुकूलाग्निमिवाम्बुजम् ।।४४ ।। अत्यन्तकर्कशेनासौ तपसा कर्शितोऽपि हि । मुञ्चति स्वं न लावण्यं बालेन्दुः कौमुदीमिव ।। ४५ ।। साध्वसौ विदधे भग्नो व्रतादत्र यदागमत् । ममेवायममुष्याहमेव विश्रम्भभाजनम् ।।४६।। इत्यादि चिन्तयन्ती सा गवाक्षादुत्ततार च । गृहगोपुरमेतस्याः स मुनिः प्रविवेश च ।।४७ ।। ससम्भ्रमथादूरादुपसृत्य स्मितानना । मूर्ध्नि बद्धाञ्जलिः स्वामिप्रतिपत्त्या तमब्रवीत् ।। ४८ ।। स्वागतं स्वामिपादानामद्य मे सुदिनं दिनम् । त्वद्दर्शनमभूद् यत्र मनोरथपथातिगम् ।।४९ ।।
Jain Education International 2010_02
गाथा - १८५ 1. पारीन्द्र पारिः पशुः तस्य तेषु इन्द्रः पारिन्द्रः । पृषोदरादित्वात् पारीन्द्रोऽपि । अभि. स्वौ. ना. श्लो. १२८४ ।।
2. कुकूल - तुषानल - फोतरानो अग्नि इति भाषायाम् । कूयते कुकूलः पुंक्लीबलिङ्ग “दुकूलकुकूल" ।। (उणा४९१) ।। इति साधुः ।
अभि. स्वो ना. श्लो. १९०१ ।।
-
For Private & Personal Use Only
१९७
-
www.jainelibrary.org