________________
१९६
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने श्रीस्थूलभद्रकथानकम् ।।
।। शीलप्रतिपालने श्रीस्थूलभद्रकथानकम् ।। उवीसर्वस्वभूतायां पूर्वस्यां दिशि पत्तनम् । अस्ति पाटलिपुत्राख्य - मनाख्येयसुखास्पदम् ।।१।। तत्र विश्वजनानन्दी नन्द इत्यवनीपतिः । पतिव्रताव्रतं यत्र व्यधत्त वसुधा चिरम् ।।२।। राज्येऽस्य स्वर्पतेर्वाचस्पतिवत् सचिवोऽभवत् । शकटाल इति ख्यातो विशालमतिवैभवः ।।३।। विश्वप्रकाशजनक - मुदयाद्रेरिव क्रमात् । पुष्पदन्तनिभं तस्मात् पुत्रद्वयमजायत ।।४।। स्थूलभद्रस्तयोज्येष्ठः प्रष्ठः श्रेष्ठगुणश्रियाम् । श्रीकरणोईढालान: कनीयान् श्रीयकः पुनः ।।५।। दन्तीव दन्तयुग्मेन नेत्रद्वन्द्वेन वक्त्रवत् । शुशुभे सचिवस्तेन तनयद्वितयेन सः ।।६।। पुण्यपादपसम्भूतं भोग्यकर्मफलं महत् । भुञ्जान: स्थूलभद्रोऽस्थादुपकोशानिकेतने ।।७।। पूर्यमाणधनः पित्रा तया चिक्रीड सोऽन्वहम् । नलकूबरवत् कामं रम्भयेवाकुतोभयः ।।८।। तथा विलसतस्तस्य ययौ द्वादशवत्सरी । तदा वररुचिः सेहे पितरं नास्य मत्सरी ।।९।। अनार्यो विप्रतार्याथ तं नन्दं मेदिनीपतिम् । बुद्धिशस्त्रेण विदधे यशःशेषं स धीसखम् ।।१०।। विपन्नेऽस्मिन् विषण्णोऽथ महीनाथस्तदात्मजम् । बभाण श्रीयकं भ्रातर्गृहाण स्वपितुः पदम् ।।११।। सोऽब्रवीदस्ति मे ज्यायान् स्थूलभद्रः सहोदरः । न मेऽधिकारः सत्यस्मिन् प्रदीपस्येव भास्वति ।।१२।। द्वाःस्थेन स्थूलभद्रोऽथ समानीतः क्षितीश्वरम् । प्रणनाम नरेन्द्रोऽपि तस्मै मुद्रामढौकयत् ।।१३।। देवालोच्य ग्रहीष्यामि मुद्रामिति तदीरिते । जगाद नृपतिः क्रीडोपवने मेऽत्र मन्त्र्यताम् ।।१४।। गतस्तत्र विविक्तेऽसौ चिन्तयामास धीधनः । धर्मार्थकामाः संसारफलं तावच्छरीरिणाम् ।।१५।। ऐहिकामुष्मिकस्वार्थ-प्रथनप्रवणेषु तु । घुमर्थेष्वेषु नैकोऽपि नृपव्यापारिणां यतः ।।१६।। भिन्नसन्धानदुर्ध्यानात् सन्धिविग्रहसङ्ग्रहात् । नीतौ छलप्रधानायां कथं स्याद् धर्मसम्भवः ।।१७।। सामाधुपायचिन्तायां पिशुनच्छिद्रमुद्रणात् । नक्तन्दिनं नृपोपास्त्या कुतस्त्या कामसङ्कथा ।।१८।। उत्पाद्य कृत्रिमागांसि तैर्यदप्ययंते धनम् । दुरुद4 जलौकानामसृक्पानमिवात्र तत् ।।१९।। पुमर्थसार्थशून्येन तीव्रपापानुबन्धिना । तदलं मे नियोगेन वियोगेन सुखश्रियः ।।२०।। परार्थानामपि चेदात्मा परायत्तः करिष्यते । स्वार्थस्य सिद्धये किन्न स्वायत्तस्तद् विधीयते ।।२१।। तातपादेषु जीवत्सु यत् सुखं स्वैरिणो मम । इदानीमात्तमुद्रस्य कुतः परवशस्य तत् ।।२२।। सुखाय सेव्यते तावत् सावद्योऽयं गृहाश्रमः । न चेतदस्ति कार्यं मे गृहवासेन किं ततः ।।२३।। इयत्कालं यथा क्षेपो ममाभूत् भोगभुक्तये । तथा साम्प्रतमप्यस्तु ननु संसृतिमुक्तये ।।२४।। विमृश्येति महात्माऽथ स्वयमेवोञ्चखान सः । पञ्चभिर्मुष्टिभिः केशान् क्लेशानिव भवोद्भवान् ।।२५।। स्वरत्नकम्बलप्रान्तं छित्त्वा चक्रे रजोहतिम् । गृहीतयतिमुद्रोऽथ नरेन्द्रमिदमब्रवीत् ।।२६।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org