SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १९४ हितोपदेशः । गाथा-१८०, १८१, १८२ - शीलस्य दुष्पाल्यता ।। पुनः स्मरस्यैव निस्तूंशतां (निस्त्रिंशतां) व्यनक्ति - कयकेसवेसपरियरपरिवत्ता निन्हवंति अप्पाणं । दंसणिणो हा तह वि हु वम्महवाहेण हम्मति ।।१८०।। किलामी दर्शनिनो न खलु दर्शनमुद्रानिमित्तं केशवेषपरिकरपरिवर्त्त प्रकाशयन्ति । तत्र केशपरिवर्तो मुण्डत्वशिखाजटाधारणादिः, वेषपरिवर्तस्तु पीतश्वेतरक्तकौपीननिवसननग्नत्वादिः, परिकरपरिवर्त्तस्तु दण्डकमण्डलुस्फटिकपुष्करबीजाक्षमालादिः, अतो नेयं तेषां दर्शनमुद्रा, किन्तु मनोभवभयेनात्मानं निह्नोतुं वेषपरिवर्त्तः । तत् किं स्यात्? तथा विधानेन तेषां किञ्चित् परित्राणं नेत्याह - तथापि कृतकेशवेषपरिकरवैकृता अपि पाखण्डिनो, हा इति खेदे, मन्मथव्याधेन स्मरमृगयुना हन्यन्ते ब्रह्मव्रतप्राणेभ्यः पृथक् क्रियन्ते, अतो मनसो वीतरागत्वमेव मनोभवाऽभिभवमूलबीजं न पुनदर्शनमुद्राङ्गीकार इति भावः ।।१८०।। न चाज्ञानोपहतानामेव विषयेषु प्रसक्तिर्यावत् ज्ञानवतामपीति दर्शयन्नाह - अमुणियविसयविवागा छागा इव ववहरंतु किमजुत्तं । अहह गुरुत्तं कम्माण मुणियतत्ता वि मुझंति ।।१८१।। अज्ञातविषयविपाका: परिणामदारुणत्वं विषयाणामजानतश्छागा इव पशव इव यद् व्यवहरन्ति विषयेषु प्रवर्त्तन्ते, तत्र किमयुक्तम्, अज्ञानस्यैव तेषां प्रवर्तकत्वात् । अहह इति खेदे । महदिदं मनसः क्लेशकारणं, यत् ज्ञाततत्त्वा अपि यथावद् विदितविषयविपाकवैरस्या अपि मुह्यन्ति मोहं यान्ति, तत्र कर्मणां गुरुत्वं, कर्मगुरुतैव तेषां विषयप्रवृत्तौ हेतुः, अत एवाकाण एव वीतरागा इति ।।१८१।। एवमप्रतिहतेऽपि स्मरशासने लघुकर्मतया येषां सर्वसंयमोद्योगस्तान् प्रस्तौति - धन्नाण मणे रमणीअमलियसीलंगरागसुभगम्मि । विलसइ चारित्तसिरी परिचत्तसवत्तिसंतावा ।।१८२।। धन्यानामासनपर[म]पदानामेव मनसि संयमलक्ष्मीविलसति । कथम्भूते? रमणीभिरमलितमनुपमर्दितं यत् शीलमब्रह्मत्यागस्तदेव स्वभावसुरभित्वेनाङ्गरागो विलेपनं, तेन सुभगे स्पृहणीये । किम्भूता चारित्रश्रीः? परित्यक्तसपत्नीसन्तापा इतराङ्गनारागव्यासङ्गविवर्जिते हि Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy