________________
हितोपदेशः । गाथा - १७७, १७८, १७९- शीलस्य दुष्पाल्यता ।।
पीणपओहरचञ्चरतिवलीतिपहम्मि जइ मयच्छीणं । पुरिसो मणं पि खलिओ ता छलिओ मयणभूएण । । १७७ ।।
पीनपयोधरचत्वरे त्रिवलीत्रिपथे च यदि मृगाक्षीणां पुरुषो मनागपि मनोविकारमात्रेणापि स्खलितः प्रबुद्धानुरागो जातस्तदा निश्चितं मदनभूतेन मन्मथपिशाचेन छलित एव, स्पृहणीयतमत्वात् पूर्वोदितसीमन्तिनीजनावयवानां, प्रस्खलत्येवाविवेकिनां सरागं चेतः, समुचितश्च चत्वरत्रिपथकेषु संचलने पुरुषस्य पिशाचच्छलः । यदुक्तम् -
मध्यत्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम् ।
छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ।।१।। [
पुनः कामविकारस्यैव स्फूर्ति दर्शयति
-
गंथत्थवियारे पत्थुयंमि एगे पसू परे विउसा ।
मारवियामि पुणो भए वि पसु व्व दीसंति ।।१७८।।
१९३
विरंमि हुंति सरणं जं सबला एस विस्सुओ मग्गो । वम्महविहरम्मि पुणो अबला सरणं ति अच्छरियं । ।१७९ ।।
ग्रन्थार्थविचारे प्रस्तुते शास्त्राभिधेयमीमांसायां प्रक्रान्तायाम् । एके अनभ्यस्तशास्त्रा विशेषपरिज्ञानशून्यत्वेन पशव इव लक्ष्यन्ते, अपरे तु दुर्भेद्यग्रन्थरहस्यप्रकाशनेन विद्वांसः प्रतीयन्ते, अतः शास्त्रविचारावसरे पशुत्वपण्डितत्वजनितं स्फुटामेवाऽस्ति तयोरन्तरम् । मारविकारे मन्मथोत्थविसंस्थुलतायामुपस्थितायां पुनः पशुः पण्डितश्च द्वावपि पशू इव दृश्येते । द्वयोरपि निर्विशेषं पशुक्रियाप्रवृत्तिदर्शनात्, अतः शास्त्रविचारपाण्डित्यं सदप्यसत्, प्रोद्भूतं हि मारविकारं यो मुकुलयितुमीष्टे स एव तत्त्वतो विद्वानिति भावः । किञ्च 'निकामं वाम एव कृत्स्नोऽपि कामव्यवहारः ' ।। १७८ ।। तथाहि
] इति ।। १७७ ।।
For Private & Personal Use Only
यदबलाः
निखिलेऽपि जगत्येष वक्ष्यमाणो मार्गो विश्रुत: प्रतीत एव । यत् विधुरे सङ्कटे सङ्घटिते सबला बलवत्तराः किलाबलानां शरणं भवन्ति । अस्य तु सत्पथप्रमथनस्य मन्मथस्य विधुरे प्रोद्भूते शरणं प्रपद्यन्ते तदाश्चर्यम्, जगत्प्रवृत्तिवैपरीत्यान्महच्चित्रम्, अथ च सीमन्तिनीचरणशरणा एव प्रायः कामिनो मन्मथव्यथां यापयन्ति, अतस्तत्त्वतः किं तेषां माहात्म्यमिति ।।१७९ ।।
Jain Education International 2010_02
www.jainelibrary.org