________________
१९२
हितोपदेशः । गाथा-१७४, १७५ - शीलस्य दुष्पाल्यता ।।
साम्प्रतं शीलस्यैव दुष्पाल्यतामुल्लासयन्नाह -
बाहाहि जलहितरणं हुयवहजालोलिकवलणं तह य । असिधाराचंकमणं तुलाइ सुरसेलतुलणं च ।।१७४ ।। अन्नं पि दुक्करं जं तं पि हु सुकरं कयाइ कस्सावि ।
पालणमिक्कं चिय निक्कलंकसीलस्स न हु सुकरं ।।१७५।। किलेतावदपि तावज्जगति निरतिशयपुंसामत्यन्तदुष्करं । किं तद् ? इत्याह-यत् बाहुभ्यां दोर्ध्या जलधितरणं पारावारपरपारयानम् । तथा हुतवहज्वालावलिकवलनं ज्वलनकीलावलीलिहनम् । तथा असिधाराचङ्क्रमणं निस्तूंश(निस्त्रिंश)नेमिक्रमन्यासः । तथा तुलया सुरशैलतुलनम् धटेन हाटकाचलोन्मानविधानम् । तथा अन्यदप्युक्तदुष्करवर्गादत्यन्तदुष्करमपि यत्तदपि कदापि कस्मिन्नपि देशे काले वा कस्यापि दिव्यशक्तयादिपुरस्कृतस्य पुंसः सर्वमेव सुकरं सुनिर्माणम् । केवलमेकस्य निष्कलङ्कस्य वाङ्मनोविकारैरप्यमलीमसस्य शीलस्याब्रह्मपरिहारलक्षणस्य पालनमामरणान्तं निर्वाहः कस्यापि विवेकपरिपाकपेशलमतेरपि प्रायो न सुकरम्, ब्रह्मणोऽप्यत्र जिसितप्रभावत्वात् ।।१७४ ।।१७५ ।। अथ कथमेवं शीलस्य दुष्पाल्यत्वमिति चेत् तदाह -
ससिणेहहिययजलिए वम्महदहणेऽभिमाणघणधूमे ।
सहसक्खो वि न पिक्खइ किचकिचं किमु दुयक्खो ।।१७६।। स्त्रीपुंसां परस्पराश्रयकामरागस्नेहवत् यत् हृदयं, तत्र मन्मथ एव शीलकाननप्लोषपटुत्वेन दहन इव दहनस्तस्मिन् ज्वलिते । किंभूते? अभिमानघनधूमे अभिमान एव घनो धूमो यस्य स तथा तस्मिन्, आभिमानिकरसानुविद्धत्वात् कामप्रवृत्तेः, एवंविधे च मन्मथधूमध्वजे ज्वलिते सहस्राक्षोऽपि विद्यमानदशशतलोचनः पुरन्दरोऽपि इदं कृत्यमिदं चाऽकृत्यमिति न पश्यति, किमुत व्यक्षः, लोचनद्वयदुस्थः सामान्यः पुमान्, स्निग्धे ह्याश्रये द्विगुणं दीप्यते वह्निः सधूमश्च भवति, युक्तं च धूमध्यामलितदशदिशि कृशानावुदयिनि लोचनानां स्वविषयग्रहणापटुत्वम् । एवं च कृत्याकृत्ययोरुपादेयत्वहेयत्वानवगमे समीचीनैव दुःशीलतेति ।।१७६।।
कामिन्य एव विमलशीलप्रतिकूलस्य केलती(केलि)कान्तस्य संजीवनमतः प्रतिभयोत्पादनेन तासु प्रसक्तिमपाकुर्वन्नाह -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org