________________
हितोपदेशः । गाथा-१७२, १७३ - शीलस्य स्वरूपम् ।। शीलस्य अनुरुपकैः योजनम् ।।
नरः पुमान् पूर्वोदितदानगुणसंगतोऽपि प्रवर्तितचतुर्विधदानप्रकारोऽपि, तथा गुरुतरारम्भोऽपि गुरुतरा महेच्छजनोचिता आरम्भाः सत्कर्मोपक्रमा यस्य स तथा । तथा भद्रजातिरपि शशधरकरावदातकुलद्वयोपेतोऽपि शीलेन वक्ष्यमाणलक्षणेन शोभते श्रियमुद्वहति । क इव केन ? करीव क्रमपीवरेण करेण । यथा हि वारणपतिर्दानगुणेन निरन्तरमदधाराधोरणीवर्षेण सङ्गतोऽपि पर्वतनितम्बपरिणमनादिमहारम्भसुभगोऽपि भद्रजातिरपि क्रमपीवरेणोपर्युपर्युपचीयमानेन शुण्डादण्डेन दीप्यते तथा शीलेन पुमानपीति भावः ।।१७१।। शीलमेव स्वरूपनिवेदनपुरस्सरमुपवर्णयन्नाह -
सीलं अबभचाओ नाओ इव चरणहरिणरायस्स ।
पसरइ जस्स मणवणे न हणइ तं मयणमायंगो ।।१७२।। शीलशब्देन यद्यपि सदाचारादयोऽपि निगद्यन्ते, तथाप्यत्र 'शीलमब्रह्मत्यागो मैथुनविवर्जनम्, तञ्च चरणमेव दुष्कर्मकुरङ्गभङ्गसुभगत्वेन हरिणराजः सिंहस्तस्य नाद इव गुञ्जितमिव । यस्य सुकृतिनो मनोवने स्वान्तकान्तारे प्रसरति, तं मदन एव शीलवनोद्दलनप्रबलपराक्रमत्वेन मातङ्गो मदकल: स नाक्रामति । किमुक्तं भवति - यथा पश्चानननादमेदुरमरण्यं मातङ्गो नाभिभवति, तथा विमल-शीलालङ्कृतचित्तमङ्गिनमनङ्ग इति मनोभवत्वात् कामस्य ।।१७२ ।। पुनः शीलमेवानुरूपकैर्योजयति -
सीलं सुहतरुमूलं सीलं नालं व नाणनलिणस्स ।
सीलं वम्महसूलं सीलं सालो वयपुरस्स ।।१७३।। ऐहिकामुष्मिकसुखमेव तरुस्तस्य शीलं मूलम्, तन्मूलत्वात् सुखशाखिविस्तारस्य । तथा ज्ञानमेव तत्तदतिशयसौरभ्यसुभगम्भावुकत्वेन मुनिमधुकरनिकरसेव्यत्वेन [च] नलिनमिव तस्य शीलं नालं, तदायत्तत्वात् तत्शोभायाः । तथा मन्मथस्य सौख्यप्रमथनसमर्थत्वेन शूलं शीलम् । तथा व्रतानि प्राणातिपातविरमणादीनि, तान्येव सुलभसमस्तशस्तवस्तुस्तोमसंभृतत्वेन पुरं तस्य सकलोपद्रवविद्रावणप्रवणत्वेन शीलं शालः प्राकार इति ।।१७३।।
गाथा-१७२ 1. शीलं - मैथुनविरतिरुपमष्टादशविधम् । - धर्मसं० का. श्लो. १३ वृत्तौ ।। दिव्यौदारिककामानां कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् ।।१।।
- यो. शा. प्र. १/३३
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org