SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा - १७०, १७१ - सप्तक्षेत्रस्य निगमनम् ।। पूएइ परमभत्तीइ गेयनट्टाइयं च सयमेव । पयडेइ तस्स पुरओ पभावई भावओ नियं ।। १०८ ।। सासयपूयाहेडं वियरइ राया वि सासणे तस्स । देवाहिदेवबिंबस्स भूमिगामाग इयं । । १०९ ।। एवं पभावईए पूइज्जती विचित्तपूयाहिं । सा विज्जुमालिपडिमा वीयभए पुरवरम्मि ठिया । । ११० ।। पज्जोयपओगेणं ठाणंतरसंकमो जह इमीए । अप्पत्थुयं ति तं इत्थ न भणियं नेयमत्रत्तो ।। १११ ।। इत्थं बिम्बं जीवतः स्वामिनोऽयम्, मित्रादेशात् कारयित्वाऽतिभक्त्या । उत्पन्नोऽपि प्रेष्यरूपे सुरत्वे, विद्युन्माली बोधिबीजं प्रपेदे । । ११२ । । १६९ ।। एवं सप्तक्षेत्रीं व्याख्याय तामेव निगमयन्नाह - १९० इय सत्तसु खित्तेसुं सुयपन्नत्तेसु वित्तबीयं जं । उप्पर गिहीहिं तं भावसलिलसित्तं सिवप्फलयं । ।१७० ।। इत्यनन्तरोदितेषु सप्तसु क्षेत्रेषु श्रुतप्रज्ञप्तेषु समयप्रणीतेषु वित्तबीजं यत् गृहमेधिभिरुप्यते, तत् भावसलिलेन श्रद्धाजलेन सिक्तं सदनन्तरपरम्परप्रकारेण शिवफलदं सम्पद्यत इति । एवमियता प्रपञ्चेनोत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे व्याख्यातमभयाऽनुकम्पाज्ञानभक्तिलक्षणैश्चतुर्भिर्भेदैः सोदाहरणैः सहितमाद्यं दानप्रतिद्वारम् । ततश्च - आद्यं तेष्वसुमत्समूहमनुगृह्णाति प्रियोत्पादनाद्, दीनानाथसमुद्धृतौ धृतधुरं दानं द्वितीयं पुनः । तातयिकमपाकरोति च जगत्यज्ञानजाड्यं महत् तुर्यं स्यादनुशीलितं च विधिना स्वर्गापवर्गप्रदम् । । १ । । किञ्च प्रपञ्चयति चातुरीं प्रथयति प्रभावोदयम्, मुदं वितनुते परामुपचिनोति शुभ्रं यशः । शमं नयति मत्सरं सुभगतां च दत्तेऽञ्जसा, निदानरहितं कृतं ननु तनोति दानं न किम् ।।२ ।। श्रीः ।। इति नवाङ्गवृत्तिकारसन्तानीय - श्रीरुद्रपल्लीय - श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस - श्रीप्रभानन्दाचार्यसोदर्यपण्डित - श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वर्त्तिनि उत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे प्रथमं दानप्रतिद्वारं समाप्तमिति ।।१७०।। श्रीः ।। गतं दानद्वारम् । अधुना द्वितीयं शीलद्वारमुच्यते ।। - गुणसंगओ विहु गरुयारंभो वि भद्दजाई वि । सीले सोहइ नरो करि व्व कमपीवरकरेण । । १७१ । । For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy