________________
हितोपदेशः । गाथा-१६८, १६९ - जिनप्रतिमायाः निर्माणफलम् ।।
अथ किंमय्य: किलामूरर्हत्प्रतिमाः कर्त्तव्यास्तदाह -
वेरुलियफलिहविद्दुम - पमुक्खरयणेहिं सेलधाऊहिं ।
धन्ना जयंमि कारियजिणपडिमा हुँति अप्पडिमा ।।१६८।। एवंविधा: केचन जगति धन्याः पुमांसो भवन्ति । किंविशिष्टाः ? कारितजिनप्रतिमाः विनिर्मितार्हत्प्रतिकृतयः । कैर्दलैः? इत्याह - वैडूर्यस्फटिकविद्रुमप्रमुखैः षोडशजातिरूपैरपि रत्नैः तथा शैलधातुभिः । तत्र शैल:-पाषाणः, धातवः-स्वर्णरूप्यपित्तलाद्यास्तैः, प्रस्तावाद् दारुमृदादिभिश्च यदुक्तम् -
'सन्मृत्तिकामलशिलातलरूप्यदारु - सौवर्णरत्नमणिचन्दनचारुबिम्बम् ।
कुर्वन्ति जैनमिह ये स्वधनानुरूपम्, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ।।१।। [ ] अत एतत्प्रायैर्दलैः कारितजिनप्रतिमाः सुकृतिनोऽप्रतिमा निरुपमा भवन्ति । विरोध छायया चैतत् पदद्वयम्, ये किल कारितजिनप्रतिमास्ते कथमप्रतिमा भवन्तीति परिहारस्तु व्याख्यात एव ।।१६८।। किञ्च -
अइदुल्लहं पि बोहिं जिणप्पडिमाकारिणो लह लहंति ।
देवाहिदेवपडिबिम्बकारओ जह सुवनयरो ।।१६९।। न केवलं जिनप्रतिमाकारिणां जगत्यनन्यसामान्यत्वमेव गुणः, किन्तु ते बोधि सम्यक्त्वलाभरूपामपि लघु शीघ्रं लभन्ते । किम्भूताम्? अतिदुर्लभां सुदुष्प्रापामपि । कथमिदमवसीयत इति चेत्? तदाह - यथेति दृष्टान्तोपन्यासे । यथा स देवाधिदेवप्रतिबिम्बकारकः कुमारनन्दीसुवर्णकारस्तद्वदिति । सम्प्रदायगम्यश्च सुवर्णकृत् । स चाऽयम् -
॥ जिनबिम्बकारककुमारनन्दीसुवर्णकारकथानकम् ।। अस्थित्थ भरहवासे वासे नीसेसउत्तमनराणं । परचक्कनिप्पकंपा चंपानामेण वरनयरी ।।१।। तत्थ य कुमारनंदी मंदीकयधणयधणफडाडोवो । निवसइ सुवनयारो पयईए चेव सवियारो ।।२।।
गाथा-१६८ 1. तुला - जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीला-जन-चन्द्रकान्तसूर्यकान्त-रिष्टा-ऽङ्क-कर्केतन-विद्रुम-सुवर्ण-रूप्य-चन्दनोपल-मृदादिभिः सारद्रव्यैविधापनम् ।।
- योगशास्त्रतृतीयप्रकाशे श्लोक-११९ वृत्तौ ।। 2. तुला - योगशास्त्रतृतीयप्रकाशे-११९ श्लोकस्य वृत्तौ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org