________________
१८४ हितोपदेशः । गाथा-१६६, १६७ - विधौ आदरः कर्तव्यः ।। जिनप्रतिमायाः निर्माणफलम् ।।
तथा विधिनैवाप्तप्रणीतयुक्त्यैव ते श्रीजिनस्तुतिस्तोत्रप्रणिधानं विदध्यात्, तत्र स्तुतयःप्रणिपातदण्डकचतुर्विंशतिस्तवश्रुतस्तवसिद्धस्तुतिप्रभृतयो याश्च चैत्यवन्दनावसरे कायोत्सर्गप्रान्तेषु दीयन्ते, स्तोत्राणि च महार्थान्युदारबन्धानि सद्भूतगुणानुगतानि भक्तामरादीनि, प्रणिधानंजिनानामेव भगवतां छद्मस्थकेवलिसिद्धत्वाद्यवस्थाऽनुस्मरणं, सर्वमेतदन्यदपि यात्रास्नात्रादिकृत्यजातं विधिपूर्वमेव कुर्वीत । अविधिना हि विधीयमानं सत्कापि मन्दाग्नेः परमान्नभोजनमिव प्रत्युतानर्थाय जायते ।।१६५ ।। अथ किमर्थमयमियान् विधिविधाने किलादर इति चेत्? तदाह -
धन्नाणं विहिजोगो विहिपक्खाराहगा नरा धन्ना ।
विहिबहुमाणी धन्ना विहिपक्खअदूसगा धन्ना ।।१६६ ।। [दर्शनशुद्धिप्रकरण गा. २८] विधिशब्दोऽत्र सर्वत्र समयोक्तयुक्तिवाची, अतो धन्यानां सुचरितसुकृतानामेव परिपूर्णो विधियोगः संपद्यते । तथा तस्य विधिपक्षस्याराधका यथोक्तकारिणश्च नरा धन्याः । तथा येषां तथाविधकुसामग्रीसङ्गमेन विधियोगविधिपक्षसमाराधनलक्षणं द्वितयं नोपपद्यते, केवलं विधौ बहुमानमनुमोदनं विदधति, तेऽपि विधिबहुमानिनो धन्या एव । अथ कथञ्चित् कर्मगुरुत्वादिना विधिबहुमानविधानमात्रस्याप्यसम्भवः केवलमदूषकत्वमात्रमेव विधिपक्षस्य येषां तेऽपि धन्या एव । विधिहीना विध्यनाराधका विध्यबहुमानिनो विधिपक्षदूषकाश्च नराः सर्वथाऽप्यधमा एवेति, कथं माऽस्तु विशुद्धधियां विधावादरः ? इति ।।१६६।। तथा -
सुयसंघतित्थपमुहं सव्वं तित्थंकरहिं ताव कयं ।
तस्स पडिच्छंदंमी कयंमि सुकयं कयं सयलं ।।१६७।। किल सर्वमप्येतद् भगवद्भिस्तीर्थकरैस्तावत्कृतम् । किं तद्? इत्याह - श्रुतसङ्घतीर्थप्रमुखम् । तत्र श्रुतं-द्वादशाङ्गगणिपिटकम्, सङ्घः-साधुसाध्वीश्रावक श्राविकारूपः, तीर्थं-प्रवचनं प्रथमगणधरो वा । तदेतदखिलं तीर्थकृद्भिर्निर्मितम्, अर्हन्मूलत्वादेतत्प्रवृत्तेः, तस्य च भगवतस्तीर्थपतेः प्रतिच्छन्दे प्रतिमारूपे निर्मिते किल प्रतिमाकारकेणैव सकलमपि पूर्वोदितमन्यदपि सुकृतं प्रवर्तितमित्यहो 'जिनबिम्बकारयितुः सुकृतसन्ततिः' इति ।।१६७ ।।
गाथा-१६६ 1. तुला - सम्बो० स० गा. १२४ ।। ___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org