________________
हितोपदेशः । गाथा-१६५ - विधिनाऽर्हबिम्बस्य निर्माणम् ।।
____ १८३
एवं पूर्वोदितेन न्यायेन निर्मिते जिनभवने, तत्र तस्मिन् मतिमान् विशुद्धबुद्धिर्जिनबिम्बमहत्प्रतिच्छन्दं स्थापयति । प्रभावनापुरस्सरमिति यत् बिम्बं भव्याः समासनमुक्तय: प्रेक्षन्ते विलोकयन्ति । किंभूताः? हत्थमत्यर्थमानन्दस्यन्दिताक्षाः परमानन्दविगलत्प्रमोदाश्रुनयनाः भवति हि सर्वोत्तमवस्तुदर्शनात् परितोषाश्रुवर्षा इति ।।१६४ ।।
विहिणा तन्निम्माणं विहिणा कारिज तप्पइट्ठाणं ।
विहिपूयाइविहाणं विहिणा थुइथुत्तपणिहाणं ।।१६५।। तस्य जिनबिम्बस्य तावदादौ निर्माणं विधिना लौकिकलोकोत्तरशास्त्रसंवादपूर्वं निर्दोषदलेन मानोन्मानप्रमाणलक्षणव्यञ्जनोपेतस्य प्रसादनीयस्य कर्तुः कारयितुः प्रतिष्ठापकस्य वाप्युदयहेतोरर्हद्विम्बस्य निर्माणं विदधीत ।। यतः - .
पासाईया पडिमा लक्खणजुत्ता समत्तकत्तव्वा ।
जह पल्हाएइ मणं तह निजरमो वियाणाहि ।।१।। [व्यवहारभा. गाथा-२६३५] तथा विधिनैवागमोक्तप्रकारेणैव तस्य प्रतिष्ठापनं प्रतिष्ठाविधिं कारयेत् । विधिहीने हि प्रतिष्ठाकर्मणि बिम्बानामसकलत्वान्न खलूत्तरोत्तरपूजाविधिरेधते । तथा पूजाविधिः पूजाविधानं पूर्वाचार्यनिदर्शितेन विधेयं । तद्यथा -
गन्धैर्माल्यैर्विनिर्यद्बहलपरिमलैरक्षतैषूपदीपैः 'सानाज्यैः [य्यैः] प्राज्यभेदैश्चरुभिरुपहितै: पाकपूतैः फलैश्च । अम्भःसम्पूर्णपात्रैरिति हि जिनपतेरीनामष्टभेदाम् ।
कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ।।१।। [ गाथा-१६४ 1. तुला - जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक्तत्र कारयेद् बिम्बं साधिष्ठानं हि वृद्धिमत् ।।
- द्वा. द्वा. ५/१० ।। गाथा-१६५ 1. छाया - प्रासादिका प्रतिमा लक्षणयुक्ता समस्तालङ्ककरणा । यथा प्रह्लादयति मनः तथा निर्जरां विजानीहि ।। “लक्खणजुत्ता पासादीया समत्तलंकारा पल्हायति जह मणं तह निज्जरमो वियाणाहि ।।१८९।। इति व्यवहारभाष्ये षष्ठोद्देशके गाथा । सम्बोधप्रकरणे-१/३२२ ।।
2. तुला - योगशास्त्रतृतीयप्रकाशे ११९ श्लोकस्य वृत्तौ ।
3. तुला - "सानाय्यैः यो. शा. ३/११९ मु. । “संपूर्वाद् नयतेर्हविषि समो दीर्घत्वं च - सान्नाय्यं हविः" इति सिद्धहेम० बृहद्वृत्तौ ५/१/२४ “हविः सान्नाय्यम् ... ||८३१।। ... हव्यपाकः पुनश्चरुः ।।८३३ ।। हव्यस्य पाको हव्यपाकः । चर्यते भक्ष्यते चरु: पक्कं होतव्यम्" - इति स्वोपज्ञवृत्तिसहिते अभिधानचिन्तामणौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org