________________
१७८
हितोपदेशः । गाथा-१५९, १६०, १६१ - जिनायतननिर्माणे गुणाः ।।
कर्मनिर्जराहेतूनेव दर्शयति -
संतम्मि जिणाययणे वंदणवडिया मुणीण धम्मकहा ।
भद्दगबोही सम्मत्तसुद्धि विरईदुगाइगुणा ।।१५९।। 'सति हि जिनायतने एते गुणा यथासम्भवं सम्भवन्ति, तद्यथा - मुनीनामनगाराणां वन्दनवृत्तिः विहारप्रसङ्गसङ्गता हि साधवो विज्ञाय नगरग्रामादिषु जिनायतनं प्रायो वन्दनार्थमुपनमन्ति, उपनताश्च श्राद्धानां श्रद्धालुतामवधार्य धर्मकथायां प्रवर्त्तन्ते, तदाकर्णने च स्वस्वकर्मक्षयोपशमानुमानेन केचित् प्राणिनो भद्रका भवन्ति, अपरेषां बोधिलाभः, केषाञ्चित् पूर्वोपात्तस्यैव सम्यक्त्वस्य शङ्कादिदोषकलुषितस्य विशुद्धिस्तदन्येषां देशविरतिसर्वविरतिलक्षणं विरतिद्विकमादिशब्दात् संशयोच्छेदजातिस्मरणाद्या गुणाः संपद्यन्ते, अनेन च विशिष्टगुणगौरवविभागेन गृह्यन्त एव विधिचैत्यविधायिनः ।।१५९।। किञ्च -
इक्कस्स वि ताव जियस्स भवदुहाओ विमोयणं धम्मो ।
किं पुण तत्तियमित्ताण भव्वजीवाण जं भणियं ।।१६० ।। एकस्यापि तावजीवस्य संसृतिक्लेशेभ्यो विमोचनं महते धर्माय । किं पुनस्तावन्मात्राणां पूर्वोदितानां भद्रकादीनां भव्यजीवानामिति ।।१६० ।। यद् यस्माद् भणितमेतदेव श्रीधर्मदासाचार्येण -
सयलंमि वि जियलोए तेण इहं घोसिओ अमाधाओ ।
इक्कं पि जो दुहत्तं सत्तं बोहेइ जिणवयणे ।।१६१।। [उपदेशमाला गा. २६८] इहास्मिन् जगति सकलेऽपि जीवलोके तेन सुकृतिना घोषित उद्घोषित: 'अमाघाओ' गाथा-१५९ 1. तुला - पिच्छिस्सं इत्थ अहं वंदणगनिमित्तमागए साहू ।
कयपुग्ने भगवंते गुणरयणनिही महासत्ते ।।१।। पडिबुझिसंति इहं दट्टण जिणिंदबिंबमकलंकं । अन्ने वि भव्वसत्ता काहिंति तओ वरं धम्मं ।।२।। ता एयं मे वित्तं जमित्थमुवओगमेइ अणवरयं । इय चिंतापरिवडिया सासयवुड्डी य मुक्खफला ।।३।।
- पञ्च व. ११२६, ११२७, ११२८ । पञ्चा. ७ गा. २६-२७-२८ ।। गाथा-१६१ 1. तुला - सकलेऽपि समस्तेऽपि जीवलोके तेन महात्मना इह घोषितो वाक्पटहेन अमाघातो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org