________________
हितोपदेशः । गाथा-१५७, १५८ - जिनभवननिर्माणे गुरुलाघवप्रेक्षा ।।
१७७
।।१५६।। आचार्यः प्राह -
सचं होइ विमद्दो पुढवाईणं धुवो समारंभे । ..
किंतु बुहा गुरुलाभे कज्जे सजंति जं भणियं ।।१५७।। हंहो ! पर ! सत्यं यथार्थमेवैतत् भवद्वचनम्, यद् दयामूलो जिनधर्मः, अत एवोत्सर्गन्यायेन स्वयंसिद्धोपलकाष्ठादिदलस्य ग्रहणेन सूत्रधारभृतकानतिसन्धानेन भृतकानामधिकमूल्यवितरणेन षट्जीवनिकाययतनापूर्वकं जिनभवनानां निर्माणमुचितम् । असम्भवे तु निरवद्यदलादेरितरथापि निर्मिमीते, तथा सति पृथिव्यादीनां ध्रुवो निश्चितो विमईः सम्भवत्येव, किन्तु एवं सत्यपि बुधा गुरुलाघवप्रेक्षावन्तो विद्वांसः कार्ये कर्त्तव्ये संसज्यन्ते । किम्भूते? गुरुलाभे, सामर्थ्यादल्पव्यये च । कथमिदमवसीयते इति चेत्, तदाह - 'जं भणियं' यद् यस्माद् भणितमागमेऽपि ।।१५७ ।। तदेव दर्शयति -
कुणइ वयं धणहेउं धणस्स वणिओ वि आगमं नाउं ।।
इय संजमस्स वि वओ तस्सेवट्ठा न दोसाय ।।१५८।। [ ] आसतां तावदितरे सत्त्वसाराः क्षत्रियादयः, यावत् वणिगपि जातिस्वभावादल्पसत्त्वो नैगमोऽपि धनस्य बहुक्केशायासोपार्जितस्य वित्तस्य व्ययं करोति । किं कृत्वा? ज्ञात्वाऽवबुध्य । किं तत्? आगमं शतसहस्रगुणितं लाभम् । कस्य? तस्यैव धनस्य । अत एव किंविशिष्टं व्ययं? धनहेतुं धनस्य कारणम् । द्रव्यक्षेत्रकालादिसम्यग्विभावनेन, कदापि व्ययोऽपि क्रियमाणो लाभरूपेण परिणमति । दृष्टान्तमुक्त्वा दार्टान्तिकेन योजयति । एवममुनैव प्रकारेण कस्मिन्नपि देशे काले वा गुरुलघुभावविभावनेनोत्सर्गापवादविदुरैः संयमस्यापि व्ययस्तस्यैव विवृद्धये क्रियमाणो न दोषाय प्रत्युत गुणाय । एवमस्मिन्नपि जिनभवनादिप्रारम्भे यद्यपि देशविरतानामारम्भोपमर्दादिजनितः कियानपि पापमललेपः संक्रामति, तथापि जिनभवननिष्पत्तावुत्तरगाथावक्ष्यमाणैर्दुष्कर्मनिर्जराहेतुभिरभिभूयत एवारम्भसम्भृतमेनः ।।१५८ ।।
गाथा-१५७ 1. तुला - कारणविधानमेतच्छुद्धा भूमिर्दलं च दार्वादि ।
भृतकानतिसंधानं स्वाशयवृद्धिः समासेन ।।३।। - षो. प्र. ६/३ ।। जिणभवणकारणविही सुद्धा भूमिदलं च कठ्ठाई ।। भियगाणइसंधाणं सासयवुड्डी य जयणा य ।। - दर्श. शु. गा. १७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org