________________
१७६
हितोपदेशः । गाथा-१५५, १५६ - जिनायतननिर्माणे अधिकार्यनधिकारिणोः वर्णनम् ।।
अन्यायोपात्तं हि पुष्कलमपि वित्तं सुक्षेत्रेषु घुणक्षतमिव बीजं न विशिष्टफलायेत अतो नीत्यर्जितैरित्युक्तम् ।।१५४।। ननु किमर्थं श्राद्धः कारयतीत्युक्तम् उच्यते -
अहिगारी जं एसो दोसो पुण अणहिगारिणो नियमा ।
आणाभंगाईओ दुरंतभवभमणपेरन्तो ।।१५५।। यद् यस्मादेष तत्र जिनायतननिर्माणादौ अधिकारी भगवद्भिर्जिनराजैनियुक्त: सावधयोगेषु हि विरताविरतरूपत्वात् श्रमणोपासकस्य, सर्वविरतत्वेनानधिकारिणः पुनर्यतेः प्रत्युत तन्निर्माणे दोष एव । कः? इत्याह - आज्ञाभङ्गादिः आदावेव तावदर्हदाज्ञाभङ्गः । कथं? द्रव्यस्तवरूपत्वाज्जिनभवनादिविधानस्य, साधूनां भावस्तव एव भगवद्भिरनुज्ञात इति, तस्माच्चानवस्था, तस्याश्च मिथ्यात्वम्, मिथ्यात्वाञ्च संयमविराधनेति दोषस्तोमः समुदेति, स च दुरन्तभवभ्रमणपर्यवसान इति कृतं जिनाज्ञाभङ्गेन ।।१५५ ।। अत्राह परः -
नणु जिणभवणाणमिहं महयारंभेण होइ निम्माणं ।
आरंभे कह णु दया? जिणधम्मो पुण दयामूलो ।।१५६।। नन्विति प्रश्ने । यद्यपि विरताविरतस्य श्रमणोपासकस्य नास्त्येवैकान्ततः सावद्ययोगनियमस्तथाप्यस्त्येव महारम्भेभ्यो निवर्त्तनम् । जिनभवनानां च निर्माणं क्षितिखननदलपाटकानयनगर्त्तापूरणेष्टकाचयनजलप्लावनवनस्पतित्रसकायविराधनारूपेण महारम्भेण भवति, आरम्भे च पूर्वोदितानां पृथिव्यादीनां निर्दयनिर्दलनेन, नु इति वितर्के, कथं दया ? दययैव किं प्रयोजनमिति चेत्, तन्न यतो जिनधर्मस्य दयैव मूलनिबन्धनम्, परमकारुणिकत्वात् तदुपदेष्ट्रणामिति
गाथा-१५५ 1. अहिगारिणा इमं खलु कारेयव्वं विवञ्जए दोसो । आणाभंगाउ चिय धम्मो आणाइ पडिबद्धो ।।
- दर्श. शु. गा. १८ ।। "छज्जीवकायसंजमो दव्वत्थए सो विरुज्झए कसिणो । तो कसिणसंजमविऊ पुप्फाईयं न इच्छन्ति ।।१।। अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारेपयणुकरणो दव्वत्थए कूवदिटुंतो ।। तथा द्रव्यस्तवरूपत्वात् पूजायाः तस्य च भावस्तवहेतुत्वात्प्रधानत्वाञ्च यतीनां न द्रव्यस्तवेऽधिकारः ।।
- अष्ट. प्र. २/५ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org