SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-१५२, १५३, १५४ - जैनागमलेखनस्य फलम् ।। षष्ठं जिनमन्दिरक्षेत्रम् ।। १७५ मतस्येति ।।१५० ।।१५१।। न च जैनागमलेखनं केवलं लेखयितुस्तन्मात्रस्यैव पुण्यस्य निबन्धनं यावदुत्तरोत्तरस्यापीति निदर्शयन्नाह - जे केइ जप्पवत्तिय - पुत्थयगंथत्थसवणओ जीवा । पावाई परिहरंती स होइ तप्पुत्रफलभागी ।।१५२।। ये केचन लघुकर्माणः प्राणिनो यत्प्रवर्तितपुस्तकग्रन्थार्थश्रवणतः पापानि प्राणिवधानृतभाषणपरधनापहारमद्यमांसमैथुनासेवनादीनि देशतः सर्वतो वा परिहरन्ति । स पुस्तकप्रवर्तकस्तत्परिहारपुण्यफलविभागभाजनं सम्पनीपद्यत इत्यहो जिनमतस्याऽतिशय इति ।।१५२।। भणियं 'सुसावगोचिय-मिय पुत्थयखित्तमह समासेणं । जिणमंदिरखित्तं पि हु सुयाणुसारेण साहेमि ।।१५३।। भणितं व्याख्यातं सुश्रावकोचितं सुश्रमणोपासकसमुचितमिति पूर्वोक्तप्रकारेण वित्तबीजोपयोगिपुस्तकाख्यं पञ्चमं क्षेत्रम् ।अथानन्तरं समासेन संक्षेपेण जिनमन्दिरक्षेत्रमपि षष्ठं श्रुतानुसारेण समयनीत्या कथयामि ।।१५३।। सम्मत्तधरो सड्डो सविसेसं बोहिसोहणसयण्हो । कारेइ जिणाययणं नीइविढत्तेण वित्तेणं ।।१५४।। एवंविधः श्राद्धो जिनायतनं कारयति । किंविशिष्टः? पुरैव सम्यक्त्वधारी, विना हि सम्यक्त्वं न हि जिनप्रवचनप्रभावनाङ्गभूतेषु जिनभवननिर्माणादिषु प्रवृत्तिसम्भवः । पुनः किंविशिष्टः? तस्या एव बोधेः शोधने नैर्मल्योत्पादने सविशेषं सुतरां सतृष्णः साभिलाषः । भवत्येव हि जिनायतनबिम्बादिनिर्माण सम्प्रतिराजादेरिव नैर्मल्यं दर्शनस्य । कैः? वित्तैर्द्रव्यैः 'किम्भूतैः? नीत्युपार्जितैः स्वामिमित्रद्रोहविश्वस्तवञ्चनचौर्यदुरोदरादिपरिहारेण स्वकुलोचितवृत्त्या न्यायोपात्तैः, ___ गाथा-१५३ 1. (०मिय) सम्पादकः । संवेगी-पाटण-मूलगाथायाः प्रतमध्ये सुसावगोचियनियपुत्थयखित्तम् पाठो वर्तते, किन्तु वृत्तिमध्ये सुश्रावकोचितं इति पुस्तकाख्यं पञ्चमं क्षेत्रम् तदनुसारेण 'सुसावगोचियमिय, पुत्थयखित्तम् पाठः समुचितो ज्ञायते ।' गाथा-१५४ 1. न्यायाजितवित्तेशो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति ।। - षो. प्र.६/२।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy