________________
हितोपदेशः । गाथा - १५०, १५१- सम्यक् श्रुतस्य स्वरूपम् ।।
असामर्थ्य तु दशवैकालिकादिसूत्रमात्रलेखनेनापि पुस्तकक्षेत्रमाराधयति । तथा वाचयति चतुर्विधश्रीश्रमणसङ्घस्य मीलनेन तान् जिनागमान् तदनुसारीण्यपराण्यपि तीर्थकृद्गणभृन्महर्षिचरितप्रभृतीनि व्याख्यानयति । कथं ? विधिना पुस्तकपूजोपचारसङ्घसम्मानमहोत्सवपुरस्सरमित्यर्थः । केभ्यो ? मेधागुणसंगति (त) मुनिभ्यः महार्थावधारणक्षमप्रज्ञागुणशालिभ्यो गुरुभ्यस्तच्छिष्यादिभ्यश्च गुर्वायत्तत्वादागमानुयोगस्येति । । १४९ ।।
१७४
ननूचित एव स्वसमयलेखनेन सुश्रावकाणां जिनप्रवचनविस्तारः । अथ परसमयानुगतमपि किमप्यमीषां संग्रहीतुमुचितं न वेत्याशङ्क्याह
ससमयपरसमयविऊ ते वि तयत्थावभासणसमत्था ।
परतित्थीणं पि तओ पमाणसत्थाणि निउणाणि । । १५० ।। वागरणछंदलंकार - कव्वनाडयकहाइ लेहेइ ।
जं सव्वं सम्मसुयं सम्मद्दिट्ठीहिं परिगहियं । । १५१ । ।
किल मेधागुणसङ्गतेभ्यो मुनिभ्यः समयशास्त्राणि व्याख्यानयतीत्युक्तम्, ते च तेषां महार्थानामर्थावभासनसमर्थाः कथं स्युः ? इत्याह स्वसमयपरसमयवेदिनः । अपरिशीलिते हि परसमये नानानयानुसरणेन केषाञ्चित् क्रियावादिनामन्येषामक्रियावादिनामपरेषामज्ञानवादिनां तदितराणां च वैनयिकानामेवं त्रिषष्ट्यधिकत्रिशतीसंख्यानां पाखण्डिनां निजनिजनयव्यवस्थापनाय प्रश्नोत्तरपराणां विषयविभागमजानानाः कथं ते स्वसमयार्थव्यवस्थापने पटवो भवेयुरतः परतीर्थिकानामपि तदुपयोगीनि निपुणानि महार्थानि प्रमाणशास्त्राणि न्यायधर्मोत्तरकमलशीलप्रभृतीनि, तथा व्याकरणानि पाणिनिशाकटायनप्रमुखानि छन्दांसि पिङ्गलजयदेवादीनि, अलङ्कारान् सरस्वतीकण्ठाभरणप्रभृतीन् तथा काव्यानि कालिदासत्रयीशिशुपालवधकिरातार्जुनीयादीनि, नाटकानि शाकुन्तलवीरचरितादीनि कथाः कादम्बरीवासवदत्ताद्याः, आदिशब्दादन्यदपि गुरुजनोपयोगिपरसमयानुगतमपि सुश्राद्धो लेखयति । नन्वमीषां परतीर्थिग्रन्थानां सङ्ग्रहणेन न कश्चिद्दोषाश्लेष इत्याशङ्क्याह- यद् यस्मात् सम्यग्दृष्टिभिर्जिनप्रवचनविशारदैः परिगृहीतमङ्गीकृतं सर्वं परसमयाद्यपि सम्यक् श्रुतत्वेन परिणमति । सर्वनयमयत्वाज्जिन
.
गाथा - १४९ 1. तुला - लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं दानम्, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति । • यो. शा. ३, प्र. ११९ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org