________________
१६६ हितोपदेशः । गाथा - १४८ - जिनमतस्य माहात्म्यम् ।। जिनवचनश्रवणफले रौहिणेयकथानकम् ।।
'तस्मादेवमवगम्य जिनेन्द्रसमयं सर्वज्ञोपज्ञमागमं सुश्रमणोपासकः पुस्तकेष्वक्षराधारेषु लेखयति । कथम् ? भक्त्या धन्यम्मन्यतया न तु परोपरोध-प्रसिद्ध्यादिकाम्यया । किमर्थमित्थं विधत्ते ? तदाह - अव्युच्छित्तिनिमित्तं कलिकालकलुषितेऽपि जगति यथा जिनागमो व्यवच्छेदं नाप्नोत्येतन्निमित्तम् तथा सत्त्वानां सुलभबोधीनामसुमतामनुग्रहार्थं च ।। १४७ ।।
ननु भवतु पुस्तकलेखनेनाऽव्युच्छित्तिरागमस्य सत्त्वानुग्रहस्तु कथं जिनागमादुत्पद्यत
इत्याशङ्क्याह -
जिणमयपयमित्तं पि ह पीयं पीऊसमिव जओ हरइ । मिच्छाविस मिह नायं रोहिणियचिलाइपुत्ताई । । १४८ ।।
आस्तां तावदपारसंसारपारावारनिस्तारपोतप्रतिमः समस्तोऽपि द्वादशाङ्गीरूपो जिनागमः । यावज्जनमतस्य पदमात्रमपि पीतं श्रुतिपुटेनोपात्तं मिथ्याविषमसद्ग्रहगरलं हरत्यपनयति । किंवत् ? पीयूषमिव । यथा हि पीयूषममृतं पीतमास्वादितं विषं हलाहलं गलहस्तयति । कथमिदमवसीयत इति चेत् ? उच्यते - इहास्मिन्नर्थे ज्ञातमुदाहरणम् । किमेकमेव ? न, इत्याह रोहिणियचिलाइ पुत्ताई रौहिणेयचिलातीपुत्रौ तावत् प्रथमोदाहरणमादिशब्दादन्येऽप्येवंप्रकाराः परिभाव्याः । सम्प्रदायगम्यौ च रौहिणेयचिलातीपुत्रौ । स चायम् -
।। जिनवचनश्रवणफले रौहिणेयकथानकम् ।।
अथ मग नरं रायगिहं अमरनयररमणिज्जं । तत्थ परक्कमपडिहय - पडिवक्खो सेणिओ राया । । १ । । तस्स सुआ नयपोरिसभवणं अभओत्ति भुवणविक्खाओ । उप्पत्तियाइचउविह - निम्मलवरबुद्धिदुद्धरिसो ।।२।। तस् य अदूरदेसे पुरस्स वेभारगिरिनिउंजम्मि । निवसइ कूरायारो चोरो लोहक्खुरो नाम ||३|| लंपतो धणनिवहं रममाणो रम्मरमणिनियरं च । नियभंडारं अंतेउरं व मन्त्रइ स रायगिहं ॥ ४ ॥ बहुमत्र सो तं चि तक्करवित्तिं समग्गवित्तीसु । पावाण पावचरिएसु चेव चित्तं जओ रमइ ।।५।। अणुरुवो रूवेणं तणओ तेणस्स तह य चरिएहिं । भजाइ रोहिणीए संजाओ तस्स रोहिणीओ ||६|| निययमवसाणसमयं मुणिउं लोहक्खुरो अह कयाइ । पभणइ पुत्त जंपेमि किंपि जइ कुणसि अवियप्पं ।।७।। विएण भइ सो विहु ताय समाइसह को किर कुलीणो । लंघइ आणं पिउणो विसेसओ चरमसमयम्मि ।।८।।
गाथा - १४७ 1. तुला
Jain Education International 2010_02
- न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् ।
न चान्धतां बुद्धिविहीनतांच, ये लेखयन्तीह जिनस्य वाक्यम् । । १ । । - यो. शा. प्र. ३ / ११९ वृत्तौ ।।
For Private & Personal Use Only
www.jainelibrary.org