________________
हितोपदेशः । गाथा - १४३, १४४, १४५, १४६, १४७ - श्रुतस्य महिमा ।। पुस्तकलेखनं कर्तव्यम् ।। १६५ लक्षणपदत्रयीपरिपाट्या ।।१४२ ।।
तथा यच गणधरेन्द्रैस्तीर्थकृदनन्तरशिष्यैर्जिनेभ्य एव गृहीत्वा अर्थत उपजीव्य सूत्रत्वेन निबद्धम् । किंविशिष्टैः ? भुवनाद्भुतबुद्धिभृद्धिः ये हि किलार्हतमुखारविन्दात् पदत्रयमात्रमाधारमवाप्यान्तर्मुहूर्त्त[कालेन ] द्वादशाङ्गीरूपं श्रुतं ग्रथयन्ति । कः किल तेभ्योऽप्यपरो भुवनाद्भुतबुद्धिधारीति । अथ किमर्थममीभिः श्रुतं सूत्रत्वेन निबद्धम् ? इत्याह - जिनप्रवचनवृद्धिकामैः, विना हि श्रुतं कुतः प्रवचनस्य प्रवृत्तिरिति । । १४३ ।।
अथ गणभृद्भ्य एव यत् श्रुतं तद्विनेयैश्चतुर्दशपूर्वभृद्भिरधीतमाम्नातम् । किंविशिष्टम् ? तेसिं वयणपंकयमयरंदसमं तेषां गणभृतां मुखारविन्दमकरन्दप्रतिमम् । किम्भूतैः ? नमन्तसीसेहिं विनयविनमन्मौलिभिः, अनेनागमाध्ययने विनयो मूलाङ्गमिति दर्शितम् । पुनः किंविशिष्टैः ? अहीनमेधैः परिपूर्णार्थावधारणशक्तियुक्तः, विना हि तादृशीं प्रज्ञां कुतः पूर्वपठनसौष्ठवम् ?
।।१४४।।
ततस्तेभ्यश्चतुर्दशपूर्वभृद्भ्यो यच्छ्रतमुपजीव्य इयतीं भूमिं प्रापितम् । कैः ? इत्याह - दशपूर्वधरादिभिर्वज्रस्वामिप्रभृतिभिर्गीतार्थगणधरैश्चापरैरपि चूर्णिकारादिभिः । कथम्भूतैः ? क्रमहीयमानप्रज्ञैः दुःषमानुभावादपचीयमानप्रतिभैरपीयतीं भूमिमिदं समयं यावत् प्रापितम् ।।१४५ ।।
तस्यैवंविधस्य तीर्थकृद्गणधरादिपारम्पर्योपनतस्य भगवतः श्रुतस्य किमर्थं साम्प्रतं पुस्तका एवाधार इत्याह - तव्विहमेहाविपत्तविरहाओ तद्विधमेधाविपात्रविरहतः, पूर्वं हि बीजबुद्धयः कोष्ठबुद्धयः पदानुसारिप्रज्ञाश्च सर्वज्ञशासने पात्रभूताः पुमांसोऽभूवन्, ते च सकलेतरनरविलक्षणप्रज्ञागुणेन गुरुमुखादेव श्रुतसारमवधारयितुमलम्भूष्णवोऽभूवन्, ऐदंयुगीनाश्च मुनयः संहननसमयादिदोषात् प्रहीयमाणप्रज्ञाः कथमागमस्याधारतामाकलयितुमलं, अतः पुस्तका एवागमग्रन्थानामाधार इति सुव्यवस्थितम् ।।१४६।।
एवं च सति किं कर्त्तव्यमित्याह
तम्हा जिदिसमयं भत्ती पुत्थसु लेहेइ । अव्वच्छित्तिनिमित्तं सत्ताणमणुग्गहत्थं च । ।१४७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org