________________
१६४
हितोपदेशः । गाथा-१४१, १४२, १४३, १४४, १४५, १४६ - श्रुतस्य महिमा ।।
भणियं खित्तचउक्त पंचमखित्तं जिणागमं भणिमो ।
केवलिदिढे भावे जो पयडइ दूसमाए वि ।।१४१।। एवं च पूर्वोक्तयुक्तया साधुसाध्वीश्रावकश्राविकालक्षणं क्षेत्रचतुष्कं वित्तबीजोपयोगित्वेन भणितं प्ररूपितम् । साम्प्रतं जिनागमरूपं पञ्चमं क्षेत्रं भणामः । यो हि जिनागमः दुःषमायां तीर्थङ्करगणधरादिसातिशयपुरुषप्रोषितेऽपि काले केवलिदृष्टान् भावान् तदथिने जनाय प्रकटयत्यवबोधयतीति ।।१४१।।
अस्य चागमस्य दुःषमायां प्रायः पुस्तका एवाधार इत्युत्तरगाथया बिभणिषुरादिश्रुतस्यैव परमपुरुषप्रणीतत्वेन महिमानमारोपयन्नाह
उम्मीलियकेवलनाण-मुणियतिहुयणगयत्थसत्थेहिं । तिवईदारेण जिणेहिं अत्थओ जं किलक्खायं ।।१४२।। भुवणब्भुयबुद्धिधरेहिं गणहरिंदेहिं जं च गहिऊण । सुत्तत्तेण निबद्धं जिणपवयणवुड्डिकामेहिं ।।१४३।। अह तेसि वयणपंकयमयरंदसमं नमंतसीसेहिं । चउदसपुव्वधरेहिं जमहीयमहीणमेहेहिं ।।१४४।। तत्तो दसपुव्वधराइएहिं कमहीयमाणपन्नेहिं । गीयत्थगणहरेहिं जं पावियमित्तियं समयं ।।१४५।। तस्स सुयस्स भगवओ तविहमेहाविपत्तविरहाओ ।
पाएण दूसमाए आहारो पुत्थया चेव ।।१४६।। तस्यैवंविधस्य श्रुतस्य भगवतः सर्वातिशयनिलयस्य पुस्तका एव दुःषमायामाधारः । यत् किम्? यजिनैर्भगवद्भिरर्थतोऽर्थद्वारेण किलेत्याप्तोक्तौ आख्यातं प्रज्ञप्तम् । किंविशिष्टैः? उन्मीलितकेवलज्ञानज्ञातत्रिभुवनगतार्थसाथैः । कथम्? त्रिपदीद्वारेण उत्पादव्ययध्रौव्य
__ गाथा-१४१ 1. जिनागम - जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदनमहामन्त्रायमाणो धर्माधर्मकृत्याकृत्य-भक्ष्याभक्ष्य-पेयापेय-गम्यागम्य-सारासारादिविवेचनहेतुः सन्तमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । - यो. शा. ३/११९ वृत्तौ ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org