________________
हितोपदेशः । गाथा-१३९, १४० - साधर्मिकवात्सल्यफलम् ।।
१६३
धर्मस्थैर्यनिमित्तं यथा तेषां धर्मे सुदृढं मनो भवतीति ।।१३५ ।।१३६ ।।१३७ ।।१३८ ।। अथ किमर्थं साधर्मिकेष्वेवमादरः? इत्याह -
जम्हा सुलहा नियकजसिद्धिसंबंधबंधुणो भुवणे ।।
दुलहा उ धम्मसंबंधबंधुरा बंधवा धणियं ।।१३९।। यस्मात् कारणात् भुवने जगति निजकार्यसिद्धिसम्बन्धबान्धवाः स्वप्रयोजननिष्पत्तिमात्रदर्शितसम्बन्धाः सम्बन्धिनः पदे पदे सुलभा एव स्वयमेव, स्वकार्यतात्पर्यपर्यवसितत्वात् प्रायशः पुंसाम् । तुः पुनरर्थे । धर्मसम्बन्धबन्धुराः पुनः सम्बन्धेन सुतरां दुर्लभाः दुष्प्रापाः, दुर्लभे च वस्तुनि कस्य नाम नादरः । किमुक्तं भवति - किल पितृमातृभ्रातृपुत्रादिसम्बन्धाः प्रतिभवसुलभा अपि भवाभिनन्दित्वेन न खलु प्राणिनां पारमार्थिकप्रीतिहेतवः, साधर्मिकास्तु ऐहिकामुष्मिकसकलसुखनिबन्धनस्य धर्मस्य प्रवृत्त्यङ्गत्वेन स्थैर्योत्पादकत्वेन च लोकद्वयेऽपि हिता एव ।।१३९।।
तम्हा समाणधम्माण वच्छलत्तेण धम्मवच्छल्लं ।
तम्मि य पुण वच्छल्लं अतुल्लकल्लाणकुलभवणं ।।१४०।। तस्मादेवं सति समानधर्माणां वत्सलत्वेन सम्मानदानादिलक्षणेन तत्त्वतो धर्म एव वात्सल्यम्, तस्मिंश्च धर्मे प्रस्तावादार्हते वात्सल्यमान्तरप्रीतिरूपम् अतुल्यानां निरुपमानां कल्याणानां श्रेयसां कुलभवनम्, सद्धर्मानुरागस्यैव समस्तशस्तसन्ततिहेतुत्वात् ।।१४०।।
गाथा-१३९ 1. स्वप्रयोजननिष्पत्तिमात्रदर्शिताः पाठान्तरे । ___ गाथा-१४० 1. श्रावकेषु स्वधनवपनं यथा - सार्मिकाः खलु श्रावकस्य श्रावकाः, समानधार्मिकाणां च सङ्गमोऽपि महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? सा च स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविधे प्रकरणे साधर्मिकाणां निमन्त्रणम्, विशिष्टभोजन-ताम्बूल-वस्त्राभरणादिदानम्, आपननिमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणम्, अन्तरायदोषाञ्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम्, धर्मे च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम्, प्रमाद्यतां च स्मारण-वारण-चोदन-प्रतिचोदनादिकरणम्, वाचना-प्रच्छना-परिवर्तनाऽनुप्रेक्षा-धर्मकथादिषु यथायोग्यं विनियोजनम्, विशिष्टधर्मानुष्ठानकरणार्थं च साधारणपोषधशालादेः करणमिति । श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । तञ्च ज्ञान-दर्शन चारित्रवत्यः शील-सन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः । - यो. शा. प्र. ३/११९ । धर्म. सं. अ. २/५९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org