________________
१६२
हितोपदेशः । गाथा-१३८ - श्रावक-श्राविकाक्षेत्रे दानम् ।।
सेसे अणद्वे त्ति ।। [भग. २श. ५ उ०]
तथा चिरं प्रतिपत्तितः प्रभृति परिणतो जीवेन सहैकीभूतो धर्मः प्रस्तावादार्हतो येषां ते तथा । अत एव खरकर्मभ्योऽङ्गारकर्मादिभ्यो निवृत्तं व्यावृत्तं चित्तं येषां ते तथा । सम्यक्परिणतजैनधर्मरहस्यानां हि कुतः खरकर्मसु प्रवृत्तिः ।
तथा निर्मलतपोरतानां निर्मलमाशंसादिविरहितं यत् तपो द्वादशभेदं, तत्र रतानामासक्तानाम् । विना हि तपः कुकर्मणां दुष्करमुन्मूलनम् । तथा अजीवाहाराणामेकान्ततः परित्यक्तसचित्तानां परिमितसचित्तानां वा ।
तथा ब्रह्मचारिणामाजन्मनियमितमैथुनप्रवृत्तीनां स्वदारसन्तोषादिविषयविभागवतां वा । सर्वथा सञ्चित्तपरिहारब्रह्मचर्य उत्कृष्टश्रावकपक्षे परिमितिकरणं तु जघन्यापेक्षम् । तथा चागमः - उक्कोसेणं सावगो अजियाहारी बंभयारि [ ] त्ति ।
तथा आवश्यकनिरतानां आवश्यकेषु अवश्यकृत्येषु षट्सु सामायिकादिषु निरतानां प्रतिदिनव्यापृतानां, एवंभूतानां साधर्मिकाणां सन्मानादि विधत्ते । केषु अवसरेषु? इत्याह - रथतीर्थयोर्यात्रायाम् । यात्राशब्दस्योभयत्र सम्बन्धात् । रथयात्रायां तीर्थयात्रायां प्रतिमाप्रासादादिप्रतिष्ठासु तथा ग्रहणशब्दस्य द्वयेऽपि योगात् सम्यक्त्वग्रहणावसरे देशविरतिप्रतिपत्तिप्रस्तावे च ।
तथा पक्षे चतुर्मासके संवत्सरे च यञ्चतुर्थषष्ठाऽष्टमादिविशेषतपस्तस्योत्तरपारणपारणकादिषु, न चात्र नियमः साधर्मिकवात्सल्यस्य प्रतिदिनविधेयत्वात् । केवलं रथतीर्थयात्रादिषूक्तावसरेषु विशेषतः पूर्वोक्तगुणयुक्तानामन्येषामपि सामायिकसूत्रमात्रधारिणां यावत् परमेष्ठिपदानुसारिणामपि सम्मानमञ्जलिबद्धासनप्रदानादिकं दानं च यथौचित्येन भोजनवस्त्रालङ्करणादिवितरणरूपं करोति । कुतः? इत्याह - गुणानुरागतः । गुणाः-सम्यक्त्वादयस्तेषु योऽनुरागःप्रीतिविशेषस्तस्मात् । गुणाधारत्वात् साधर्मिकलोकस्य न तु कृतप्रतिकृतिवाञ्छया । तथा अभिनवधर्माणामचिरप्रतिपन्नजिनमतानां विशेषत: सम्मानादि निर्मिमीते । कुतः? इत्याह - तन्मध्यवर्तिधातुरस्थिमिजास्ताः प्रेमानुरागेण सार्वज्ञप्रवचन-प्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा । - भ. २ श. ५. उ० । सम्यक्त्वासितान्तश्चेतः । सु. सूत्र. २ श्रु. ७ अ. । “अयमाउसो णिग्गंथे पावयणे अढे अयं परमढे सेसे अणडे" इत्येवमुल्लेखेन सम्यक्त्विषु ज्ञा. ५. अ. । लट्ठा गहिअट्ठा पुच्छियट्ठा विणिच्छियट्ठा य । अहिगयजीवाईया अचालणिज्जा पवयणाओ ।।१।। तह अट्ठिअट्ठिमिज्जाणुरायरत्तो जिणिंदपन्नत्तो । एसो धम्मो अट्ठो परमट्ठो सेसगमणट्ठो ।।२।।
- दर्श. प्र. - गा. ९०-९१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org