________________
हितोपदेशः । गाथा-१३५, १३६, १३७, १३८ - श्रावक-श्राविकाक्षेत्रे दानम् ।।
१६१
__ व्याख्यातं सोदाहरणं साधुसाध्वीलक्षणं क्षेत्रद्वयम् । साम्प्रतं श्रावकश्राविकारूपे क्षेत्रद्वये कुटुम्बिनां वित्तबीजोपयोगितामुपदिशन्नाह -
अहिगयजीवाजीवाण सम्ममुवलद्धपुत्रपावाणं । चिरपरिणयधम्माणं खरकम्मनियत्तचित्ताणं ।।१३५।। निम्मलतवोरयाणं अजियाहाराण बंभयारीणं । आवस्सयनिरयाणं समाणधम्माण सड्डाणं ।।१३६ ।। रहतित्थजत्त-पडिमापइट्ठ-सम्मत्तविरइगहणेसु । पक्खचउमासंवच्छर-तवउत्तरपारणाईसु ।।१३७।। सगिहाणं सम्माणं दाणं च गुणाणुरागओ कुणइ ।
धम्मथिरत्तनिमित्तं अहिणवधम्माण सविसेसं ।।१३८ ।। एवंविधानां समानधर्माणां श्राद्धानां तृतीयक्षेत्ररूपाणां सुश्रमणोपासकः सम्मानादि करोतीत्युत्तरगाथापदेन सम्बन्धः । तत्र समानेन तुल्येन धर्मेणार्हतेन चरन्तीति समानधर्माणः, एकधर्माचार्योपदिष्टविशिष्टसामाचारीनिरता वा, तेषाम् । तत् किमेकाकिनामेव? न, इत्याह सगृहाणाम्, 'गृहिणी गृहमुच्यते' इति वचनात् सपत्नीकानाम्, अनेन च चतुर्थक्षेत्रोपक्षेपः, उपलक्षणं च गृहिणी यावत् आपितृमातृभ्रातृपुत्राद्युपेतानामपि । तानेव विशिनष्टि - किंविशिष्टानाम्? अधिगतजीवाजीवानाम् अधिगतौ यथावत् परिज्ञातौ जीवाऽजीवौ उक्तलक्षणौ यैस्ते तथा । विदितजीवाजीवतत्त्वानामित्यर्थः ।
तथा सम्यगुपलब्धपुण्यपापानाम् - सम्यक्-जिनोक्तयुक्त्या उपलब्धे-अवबुद्धे पुण्यपापे यस्तेषाम् । परिशीलितपुण्यपापप्रकृतिपरिणतीनाम्, उपलक्षणं च जीवाजीवपुण्यपापानि आश्रवसंवरादीनाम्, यावत् समस्ततत्त्वप्रत्यलप्रतिभानामित्यर्थः । तथा च भगवतीसूत्रम् - __ अहिगयजीवाजीवा उवलद्धपुनपावा आसवसंवरकिरियाहिकरणप्पमुखकुसला असहिज्जा देवासुरनागसुवनजक्खरक्खसकिन्नरकिंपुरिसगारुडगंधब्बमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा । निग्गंथे पावयणे निस्संकिया निक्कंखिया निवितिगिच्छा लद्धट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा 'अट्ठिमिंजपेमणुरायरत्ता । अयमाउसो ! निग्गंथे पावयणे अट्ठो(टे) अयं परमटे गाथा-१३८ 1. अद्विमिंजपेमणुरायरत्ता - अस्थिमिञ्जाप्रेमानुरागरक्ताः - अस्थीनि च कीकशानि मिञ्जा च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org