________________
१६०
हितोपदेशः । गाथा-१३४ - सुपात्रदाने चन्दनबालाकथानकम् ।।
स्वामिन्ननुचितं भोज्यं यद्यप्येतत्तथापि हि । परोपकारैकरत ! गृहाणानुगृहाण माम् ।।१११।। द्रव्यादिभेदसंशुद्धं ज्ञात्वा पूर्णमभिग्रहम् । तस्यै कुल्माषभिक्षायै स्वामी प्रासारयत् करम् ।।११२।। अहो धन्याऽहमेवेति ध्यायन्ती चन्दनाऽपि हि । चिक्षेप शूर्पकोणेन कुल्माषान् स्वामिनः करे ।।११३।। स्वाम्यभिग्रहसंपूर्त्या प्रीतास्तत्राययुः सुराः । वसुधाराप्रभृतीनि पञ्च दिव्यानि च व्यधुः ।।११४।। तुत्रुटुर्निगडास्तस्यास्तत्पदे काञ्चनानि च । जज्ञिरे नूपुराण्यासीत् केशपाशश्च पूर्ववत् ।।११५।। सर्वांगीणं च तत्कालं रत्नालङ्कारधारिणी । श्रीवीरभक्तैर्विदधे विबुधैरथ चन्दना ।।११६ ।। उत्कृष्टनादं विदधू रोदःकुक्षिभरि सुराः । जगुश्च ननृतुश्चोचै रङ्गाचार्या इवोन्मुदः ।।११७।। मृगावतीशतानीको सुगुप्तो नन्दया सह । तत्रैयुः सपरीवाराः श्रुत्वा तं दुन्दुभिध्वनिम् ।।११८।। आययो देवराजोऽपि शक्रो मुदितमानसः । संपूर्णाभिग्रहं नाथं नमस्कर्तुं द्रुतद्रुतम् ।।११९।। दधिवाहनराजस्य संपुलो नाम कञ्चकी । चम्पावस्कन्द आनीतो राजा मुक्तस्तदैव हि ।।१२०।। तत्रायातो वसुमतीं दृष्ट्वा तत्पादयोर्नतः । विमुक्तकण्ठमरुदत् सद्यस्तामपि रोदयन् ।।१२१।। किं रोदिषीति राज्ञोक्तः साश्रुः प्रोवाच कञ्चकी । दधिवाहनराजस्य धारिण्याश्चेयमात्मजा ।।१२२।। तादृग्विभवविभ्रष्टा पितृभ्यां रहिता च हा । इयं वसत्यन्यगृहे दासीवत्तेन रोदिमि ।।१२३।। राजाऽप्यूचे न शोच्येयं संपूर्णाभिग्रहो यया । जगत्त्रयत्राणवीरः श्रीवीरः प्रतिलाभितः ।।१२४।। मृगावत्यप्यभाषिष्ट धारिणी भगिनी मम । इयं तदुहिता बाला ममापि दुहिता खलु ।।१२५।। पञ्चाहन्यूनषण्मासतपःपर्यन्तपारणम् । कृत्वा धनावहगृहानिर्ययौ भगवानपि ।।१२६ ।। वसुधारामथाऽऽदित्सुं लोभप्राबल्यतो नृपम् । व्याजहार शतानीकं सौधर्माधिपतिः स्वयम् ।।१२७ ।। नेह स्वस्वामिभावो यद्रत्नवृष्टिं जिघृक्षसि । यस्मै ददाति कन्येयं स एव लभते नृप ! ।।१२८ ।।। गृह्णात्विमां क इत्युक्ता राज्ञा प्रोवाच चन्दना । अयं धनावहः श्रेष्ठी पिता हि मम पालनात् ।।१२९।। जग्राह वसुधारां तां ततः श्रेष्ठी धनावहः । भूयोऽप्याखण्डलोऽवोचच्छतानीकनरेश्वरम् ।।१३०।। बाला चरमदेहेयं भोगतृष्णापराङ्मुखी । भविष्यत्यादिमा शिष्योत्पन्ने वीरस्य केवले ।।१३१।। आस्वामिकेवलोत्पत्तिः रक्षणीया त्वया ह्यसौ । इत्युक्त्वा मघवा नाथं नत्वा च त्रिदिवं ययौ ।।१३२।। इति शक्रशासनात् तां निन्ये नृपतिस्तदा निजावासम् । मूलां धनश्च सदनात् तदैव निर्वासयामास ।।१३३।। तीवा॑निजांप्रतिज्ञां विजहाराऽन्यत्रभुवननाथोऽपि ।प्रणिपत्यचतंजग्मुः सुरासुराद्या निजंस्थानम् ।।१३४।। पाण्मासिकस्य तपसो दिनपञ्चकेन, न्यूनस्य पारणमिति क्षितिपालपुत्री । निर्माप्य सा चरमतीर्थपतेरवाप्य शिष्यात्वमस्य च पदं परमं प्रपेदे ।।१३५ ।।१३४ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org