________________
गाथा-१३४ - सुपात्रदाने चन्दनबालाकथानकम् ।।
१५९
इति चिन्तासममस्याः श्रेष्ठी पुनरपि जगाम विपणिपथम् । उत्तीर्योपरिभूमेराणि पिधाय सा चण्डा ।।८।। बद्ध्वाऽथचन्दनांतांनिबिडंपरिताड्यसुबहुनिर्भय॑ ।मुण्डितमुण्डांकृत्वानिधायपदयोश्चनिगडानि।।९।। नीत्वा गृहैकदेशे गुप्तिप्रायेऽपवरककोणे ताम् । निक्षिप्य स्थगयित्वा द्वाराण्यथ तालकं दत्त्वा ।।१०।। ऊचे परिजनमेषा यः पुरतः श्रेष्ठिन: स्वरूपमिदम् । कथयिष्यति स मरिष्यति मदीयहस्तादविभ्रान्तम् ।।११।। समये धनोऽपि सदनं प्रापत् तां चन्दनामनालोक्य । क्रीडन्ती क्वापि भविष्यतीति पप्रच्छ न विशेषम् ।।१२।। शयनक्षणेऽप्यदृष्ट्वा दध्यो सुप्ता भविष्यति पुरैव । एवमगादस्य दिनं द्वितीयमप्यात्मसङ्कल्पैः ।।१३।। तातीर्थिकदिनेऽपि हि ददर्श यावन चन्दना श्रेष्ठी । शङ्कितहृदयस्तावत् पप्रच्छ परिच्छदं स्वीयम् ।।१४।। रे रे कथयत क्वास्ति चन्दना मम नन्दना ? । नाऽऽख्यास्यथ विदन्तश्चेत्रिग्रहीष्यामि वस्तदा ।।१५।। श्रुत्वेदं स्थविरा तत्र काचिछेटीत्यचिन्तयत् । जीविताऽहं चिरतरं प्रत्यासन्ना मृतिर्मम ।।१६।। कथिते चन्दनोदन्ते किं मूला मे करिष्यति ? । एवं विचिन्त्य तामाख्यन्मूलाचन्दनयोः कथाम् ।।१७।। श्रेष्ठिनोऽदर्शयद् गत्वा चन्दनारोधवेश्म सा । द्वारं चोद्घाटयामास स्वयं श्रेष्ठी धनावहः ।।१८।। तत्र च क्षुत्पिपासातॊ दवस्पृष्टां लतामिव । निगडैर्यन्त्रितामहयोर्नवात्तां करिणीमिव ।।१९।। परिमुण्डितमुण्डां च भिक्षुकीमिव चन्दनाम् । अश्रुपूरितनेत्राब्जामीक्षाञ्चक्रे धनावहः ।।१०० ।। (युग्मम्) विश्वस्ता भव वत्से ! त्वमिति जल्पन्नुदश्रुदृक् । तद्भोज्यार्थं रसवतीं ययौ श्रेष्ठी द्रुतद्रुतम् ।।१०१।। विशिष्टं तत्र चाऽपश्यन् भोज्यं दैवाद्धनावहः । कुल्माषान् शूर्पकोणस्थांश्चन्दनायै समर्पयत् ।।१०२।। भुञ्जीथास्तावदेतांस्त्वं यावत् त्वनिगडच्छिदे । कारमानयामीति जल्पित्वा श्रेष्ठ्यगाद् बहिः ।।१०३।। चन्दनोर्ध्वस्थिता चैवमचिन्तयदहो क्व मे । तस्मिन् राजकुले जन्म क्व चावस्थेयमीदृशी ।।१०४।। भवेऽस्मिन्नाटकप्राये क्षणाद्वस्त्वन्यथा भवेत् । स्वानुभूतमिदं मे हि किं सम्प्रति करोमि हा ।।१०५ ।। षष्ठस्य पारणायामी कुल्माषाः सन्ति सम्प्रति । यद्यायात्यतिथिस्तस्मै दत्त्वा भुञ्जेऽन्यथा न हि ।।१०६।। एवं विचिन्त्य सा द्वारे ददौ दृष्टिमितस्ततः । तदा चाऽऽगान्महावीरो भिक्षायै पर्यटन् प्रभुः ।।१०७।। अहो पात्रमहो पात्रमहो मे पुण्यसंचयः । मुनिर्महात्मा कोऽप्येष भिक्षायै यदुपस्थितः ।।१०८।। चिन्तपित्वेति साऽचालीद्वाला कुल्माषशूर्पभृत् । एकमप्रिं न्यधादन्तदेहल्या अपरं बहिः ।।१०९।। निगडैदेहली सा तु समुल्लङ्घितुमक्षमा । तत्रस्थैवाऽऽर्द्रया भक्तया भगवन्तमभाषत ।।११०।।
__15. ९५ श्लोकतः १२५ श्लोकपर्यन्तकथाभागः सम्प्राप्ते संवेगी-पाटण-प्रतिमध्ये खण्डितोऽस्ति । अत एव स्थानशून्यतानिवारणार्थं त्रिषष्टिशलाकाचरित्रस्य दशमपर्वस्य चतुर्थसर्गस्य ५६१ तः ५९८ पर्यन्तश्लोका उद्धृत्यात्र संस्थापिताः सन्ति । संवेगी-पाटण-प्रतिमध्ये १२६ आरभ्य १२८ श्लोकाः सन्ति, अत्र क्रमबद्धाः क्रमाङ्काः १३३ तः १३५ सन्ति ।। - सम्पा. ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org