________________
१५८
हितोपदेशः । गाथा-१३४ - सुपात्रदाने चन्दनबालाकथानकम् ।।
जानास्यपि यदि तद्वद यदस्ति चरमो जिनः पुरीह मम । तस्याभिग्रहसङ्ग्रह - समुत्थखेदस्य का वार्ता ।।६१।। मासाः पञ्च बभुवुर्भुवनगुरोरनशितस्य पर्यटतः । कठिनहृदयोऽसि यस्त्वं प्रवृत्तिमपि नैव जानासि ।।६।। तस्मात् तथा कथञ्चन यतस्व जीवेश ! देशकालज्ञ ! । विज्ञायते यथाऽयं हृदयस्थोऽभिग्रहो भर्तुः ।।६३।। इति वचनं दयितायास्तदनाकर्णितचरं समाकर्ण्य । मन्दाक्षविलक्षमुखः सविषादमिदं जगादैनाम् ।।६४।। देवि ! नृदेवत्वं मम दूरे प्रसृताक्षि ! नृपशुरेवास्मि । यस्य निरस्य विवेकं वैकल्यमतुल्यमुल्लसितम् ।।६५।। परदोषवीक्षणविधौ भवन्ति खलु भूभुजः सहस्राक्षाः । सन्मार्गमार्गणे पुनरनाहतं नैकमपि चक्षुः ।।६६।। अहह सुबुद्धिर्नाम्ना मन्त्री मम तत्त्वतस्तु निर्बुद्धिः । यस्य प्रमादनिद्रा निर्मुद्रा विलसति ममेव ।।६७।। तन्मा विषीद सुन्दरि ! चरितार्था कथनमात्रतस्त्वमसि । कृतयत्नोऽस्म्यधुनैव हि विज्ञातुमभिग्रहं भर्तुः ।।६८।। इति वादिनि नरनाथे सचिवोऽपि समाजगाम तत्रैव । अत्यर्थमुपालब्धस्तत्रार्थेऽमस्त सोऽपि तथा ।।६९।। धर्माधिकारिणमथो तत्त्वज्ञं सर्वदर्शनाभिज्ञम् । इत्यादिशनृपस्त्वं जैनरहस्यानि जानीषे ।।७।। कीदृगभिग्रहवर्ग: के नियमाः कश्च पारणककल्पः । निपुणं निरूप्य साधय पारणकविधिं जिनेन्द्रस्य ।।७१।। सोऽप्याह देव नियता भवन्ति नाभिग्रहा मुनीन्द्राणाम् । द्रव्यं क्षेत्रं कालं भावं वाऽऽलम्ब्य ते हि स्युः ।।७२।। तदिहास्तु योगिगम्ये भावे ननु मादृशस्य को विषयः । विविधविधानैर्दानं प्रवर्त्यतां देव ! किन्तु पुरि ।।७३।। एवं कृते कदाचित् घटेत यदि नाम पारणं भर्तुः । विदधे च तत्तथैव हि नृपेण न तु साध्यसिद्धिरभूत् ।।७४।। अथ सा चम्पाधिपतेस्तनूद्भवा वसुमती पुराभिहिता । धनवेश्मनि निवसन्ती भेजे नवयौवनारम्भम् ।।७५।। सुकुमारं वपुरस्याः स्वभावसुभगानि हसितललितानि । अङ्गावयवविभक्तिं रुचिरत्वं चिकुरभारस्य ।।७६।। पश्यन्ती धनगृहिणी तुच्छप्रकृतिविचिन्तयामास । श्रेष्ठी पुत्रीत्येनां प्रकटं व्याहरति सर्वत्र ।।७७।। सादरमुपचरति पुनर्वस्त्राभरणैर्निरन्तरं रुचिरैः । को वेत्ति चित्तवृत्तिं पुंसामत्यन्तचपलानाम् ।।७८।। प्रोद्भिनयौवनां यदि गृहिणीभावेऽधिरोपयत्येनाम् । जीवन्मृता तदाहं परिभवपात्रं भविष्यामि ।।७।। इति निजविकल्पकलुषा योषाजनसुलभसम्भृतासूया । छिद्राणि चन्दनाया व्यालीव विलोकयति मूला ।।८।। अन्येधुर्विपणिपथान्मध्याह्ने स समागमत् श्रेष्ठी । दैवान्न तत्र चासीत् सनिहितः कोऽपि कर्मकरः ।।८१।। दृष्ट्वा च चन्दना तं श्रमविवशं पितरमागतं पुरतः । दत्त्वाऽऽसनमुपनिन्ये चरणप्रक्षालनाय जलं ।।२।। श्रेष्ठी बभाण वत्से ! तिष्ठ त्वं कर्मठाऽसि खलु नात्र । पितृभक्तचासौ तदपि प्रारेभे क्षालनं पदयोः ।।८३।। श्रमवशविसंस्थुलोऽस्याः कालिन्दीसोदरश्चिकुरभारः । पतयालुरभूद्यावत्पादोदकपिच्छिलावन्याम् ।।८४।। उशिक्षेप तदा तं लीलायष्ट्या करस्थया श्रेष्ठी । वातायनोपविष्टा ददर्श मूलाऽपि तदशेषम् ।।५।। चिन्तितवती च तदिदं यश्चिन्तागोचरे पुरा मेऽभूत् । पत्नीव्यवहारोऽयं पुत्रीचेष्टितमिदं न खलु ।।८।। भवतु विनष्टं न किमप्युपेक्षणीयाऽधुनाप्यसो नैव । कार्य नखविच्छेद्यं परशुच्छेद्यं विधत्ते कः ।।८७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org