________________
हितोपदेशः । गाथा-१३४ - सुपात्रदाने चन्दनबालाकथानकम् ।।
१५७
अत्रान्तरे च भगवान् सिद्धार्थनरेन्द्रनन्दनो वीरः । चरमस्तीर्थाधिपतिस्तृणमिव सन्त्यज्य राज्यसुखम् ।।३४।। भवशतनिबद्धदुर्धर - कर्मबलोद्दलननिश्चलारम्भः । दुर्गोपसर्गवर्ग - व्यतिकरदुर्द्धर्षगुरुतेजाः ।।३५ ।। दुष्करतरविविधतपो - ऽभिग्रहनिगृहीतनूतनविकारः । छद्मस्थ एव विहरंस्तामेव पुरीमुपेयाय ।।३६।। तत्र च पौषप्रतिपदि कृष्णायां भुवनबान्धवो भगवान् । सविशेषकर्मनिर्भरण-काम्ययाऽभिग्रहं जगृहे ।।३७।। द्रव्यं कुल्माषाः खलु कौशाम्बी पुरवरी त्वसौ क्षेत्रम् । कालो गोचरकालव्यतिक्रमः किञ्च भावोऽयम् ।।३८।। नृपतिसुता परवेश्मनि दासी मुण्डितशिरोरुहा रुदती । अष्टमतपोऽवसाने निगडैनिगडितपदद्वन्द्वा ।।३९।। देहल्या बहिरेकं चरणं मध्ये परं च संस्थाप्य । कुल्माषान् किल मह्यं यदि दास्यति सूर्पकोणेन ।।४०।। तदहं ध्रुवं विधास्ये पारणकं नाऽन्यथेति जगदीशः । धृत्वा चित्ते दुर्ग्रहमभिग्रहं तस्थिवांस्तत्र ।।४१।। प्रतिवासरंच विचरति गोचरकालव्यतिक्रमेऽनुगृहम् । अप्राप्य कल्प्यमविकल्प-मानसः सुस्थ एवास्ते ।।४२।। एवमदीनमनस्कस्य तस्य दुर्जेयनियमनिरतस्य । एकाहवद् व्यतीता मासाः पञ्चाऽप्रपञ्चस्य ।।४३।। अन्येधुर्भुवनगुरुभवने सचिवस्य विहरणाय गतः । चलितश्चाकृतभिक्षः साक्षाञ्चक्रेऽथ तं नन्दा ।।४४।। आः किमितिकमपिजगृहे जगद्गुरुर्नाद्य मद्गृहात्पिण्डम् । जल्पन्तीमिति नन्दांप्रत्यूचुश्चेट्य इतितत्र ।।४५।। स्वामिनि ! समेति नित्यं देवार्यः किन्तु दीयमानमपि । नादत्ते किमपि कुतोऽपि तन्निशम्याथ सा दध्यौ ।।४६।। नियतमभिग्रहधारी जगद्गुरुर्येन गोचरगतोऽपि । नादत्ते ननु भिक्षां क्षामतनुः केवलं भ्रमति ।।४७।। धिधिकप्रमादपरतांममेतितस्यां भृशंविषण्णायाम् ।प्रत्याजगामसदनंतदैवनृपमन्दिरात्सचिवः ।।४८।। नलिनीमिव हिमपातग्लपितां मलिनाननामिमां वीक्ष्य । पप्रच्छ त विषादस्य कारणं कारणिकमुख्यः ।।४९।। सोपालम्भमथोचे सचिवं नन्दापि मन्दमुखरागा । अन्यान्यशास्त्रपरिशीलनेन धिक् तालुशोषस्ते ।।५०।। किं कार्यं तव बुद्ध्या बोद्धव्यं बुध्यसे यया नैव । खरकर्मणां प्रवृत्तौ केवलमुपयुज्यते यदि सा ।।५१।। यद्यस्ति बुद्धिवैभवमवदातं किमपि तद् भुवनभर्तुः । कृत्वा कञ्चिदुपायं चित्तस्थमभिग्रहं विद्धि ।।५२।। श्रुत्वेति तामथोचे सचिवः स्थाने त्वयास्म्युपालब्धः । बाहुभ्यामम्भ:पतितरणप्रायं तु कार्यमिदम् ।।५३।। चरमाब्धिपयोऽञ्जलिभिर्मातुंसङ्ख्यातुमुडुगणंशक्तिः । कस्यापिकदापि भवेत्न ज्ञातुमभिग्रहमिमंतु ।।५४।। किन्तु करिष्ये यत्नं सुस्था भव भाविभूरिभद्रेण । केनापि पूर्णनियमः करिष्यतेऽसौ यथा स्वामी ।।५५ ।। तत्रस्था जल्पमिदं सकलं शुश्राव भूपतिभुजिष्या । देव्याश्च मृगावत्यास्तदैव साऽचीकथद् गत्वा ।।५६।। श्रुत्वाऽथ भुवनभर्तुस्तत्तादृगभिग्रहाग्रहविशेषम् । अन्तःस्फुरदुरुखेदा प्रवृत्तसन्तप्तनि:श्वासा ।।५७॥ करतलकलितकपोला निश्चलनीचैर्विमुक्तनयनयुगा । सा दृष्टाऽवनिपतिना पृष्टा खेदस्य हेतुं च ।।५८।। सा साक्षेपमथोचे सेयं वृत्तिस्त्रिवर्गसारा ते । साधु सदाचारत्वं साधु पुराचारवेदित्वम् ।।५९।। छलघाताय रिपूणां राज्ये तव चारसंग्रहो नियतम् । न पुनर्धाधर्म - प्रवृत्तिलोपावलोकार्थम् ।।१०।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org