________________
हितोपदेशः । गाथा - १३४ - सुपात्रदाने चन्दनबालाकथानकम् ।।
चम्पेशेन कदाचिद् दधिवाहनभूभुजा सह विरोधः । कौशाम्बीभर्तुरभूत् परस्परप्रातिकूल्येन ||७|| अतिनिभृतिचारनयनैरन्योन्यं पश्यतोस्तयोश्छिद्रम् । वत्साऽधिपः प्रमत्तं दधिवाहनमन्यदा बुबुधे ।।८।। अक्षेपगमनदक्षं नौसाधनमतिजवं शतानीकः । प्रगुणीचकार चम्पां गन्तुं गाङ्गेन मार्गेण ।। ९ ।। भटकोटिभिः परीतः सायं पोतांश्च तानथारुह्य । स चचाल छलघाती जवपाती नागनाथ इव ।।१०।। गत्वा च रात्रिशेषे रुरुधे दधिवाहनं मदाध्मातः । विविशुश्च पुरीमध्यं कृततुमुलाः सैनिकास्तस्य । । ११ । । करितुरगकोशशुद्धान्तसञ्चरेष्वरिगणेन रुद्धेषु । चम्पाधिपमपनिन्युस्तदा तदाप्ता युयुत्सु ।।१२।। सविशेषं जितकासी चम्पेशपलायनेन वत्सेशः । तस्य नगरीविलोपे यद्ग्राहं घोषयामास ।। १३ ।। सप्ताङ्गमपि प्राज्यं राज्यं चम्पाधिपस्य जग्राह । स विनैव युद्धखेदं मेदुरतरभाग्यसम्भारः । । १४ ।। धनकनककोटिकलितां विलुण्ठ्य मध्येदिनं पुरीमखिलाम् । व्यावर्त्तत कृतकृत्यः पुष्टानीकः शतानीकः ।। १५ ।। तस्मिन्नथ विध्वंसे पत्नी दधिवाहनस्य नश्यन्ती । वसुमत्या सह सुतया भयविधुरा धारणी देवी । । १६ ।। कारभिकेणैकेन प्राप्ता काकेन रत्नमालेव । संचारिता च सैन्यैः सहैव वत्साधिपस्य पुरीम् ।।१७।। मार्गे गच्छन्नघृणः पृष्टो दुष्टौष्ट्रिकः कटकलोकैः । कथयत्येनां पत्नीं विधाय पुत्रीं धनैर्दास्ये ।। १८ ।। श्रुत्वैवं श्रुतिदुःसहमश्रुतपूर्वं वचस्ततस्तस्य । हा कथमिदमपि मह्यं विधाप्यते दुष्टदैवेन ।।१९।। हैहयकुलेऽस्मि जाता दधिवाहनभूभुजा च परिणीता । जिनवचनभावितमतिस्तदिदं श्रुत्वाऽपि जीवामि ।। २० ।। इति दुःसहसङ्घट्टात् स्फटिकोपलनिर्मलं सुशीलायाः । दुःखानलावलीढं पुस्फोट तदा हृदयमस्याः ।। २१ ।। तद् दृष्ट्वा कारभिकः स चिन्तयामास धिगिदमापतितम् । मद्वचनाशनिपाताल्लतेव नूनं विपन्नेयम् ।।२२।। मैवं भवतु सुताया अपि जननीविरहविधुरहृदयायाः । इति लालयन्निमां पथि सुखेन निन्ये सकौशाम्बीम् ।। २३ ।। दत्त्वा तृणं च मूर्द्धनि दधे च चतुःपथे स तां बालाम् । प्रतिकूले हि विधातरि विधुरं किं नोपपद्येत ।।२४।। तत्रैव दैवयोगादुपागतः पूर्वसूचितः श्रेष्ठी । भूरिधनो धननामा ददर्श चैनामथो दध्यौ ।। २५ ।। इयमाकृतिरेतस्याः कथयत्यमले कुले ध्रुवं जन्म । विक्रीतानुपतिष्यति तपस्विनी क्वापि नीचकुले ।। २६ ।। तदियं तरङ्गतरला क्लेशशतैरर्जिता यदि विभूतिः । उपयुज्यते कथञ्चन परोपकारे तदा सफला ।।२७।। इति तां नृपशोस्तस्मादसौ च यद्यावदर्थितेरर्थैः । आनिन्ये निजवेश्मनि पुत्रीमिव वत्सलस्तदनु ।।२८।। उपनिन्ये च तदैव हि मूलायै सादरं सदयहृदयः । पालय पुत्रीवदिमामित्येनामन्वशाच धनः ।। २९ ।। आहारवस्त्रताम्बूल-भूषणाद्यैर्निरन्तरं रुचिरैः । स्वयमुद्युक्तश्चैनामनिन्द्यचरितामुपचचार ।। ३० ।। नामान्वयादि दक्षा पर्यनुयुक्तापि नाचचक्षेऽसौ । समये हि समुत्कीर्त्तनमेषामुत्कर्षहेतुः स्यात् ।।३१ ।। चन्दनवदियं बाला सकलजनाह्लादकारिणी यस्मात् । चन्दनबालां नाम्ना श्रेष्ठी तां व्याजहार ततः ।। ३२ ।। सद्वृत्तैर्विनयेन प्रियवादितया च सर्वजनहृद्या । पितृवेश्मनीव रेमे स्वच्छन्दं वसुमती तत्र ।। ३३ ।।
For Private & Personal Use Only
१५६
Jain Education International 2010_02
www.jainelibrary.org