________________
हितोपदेशः । गाथा-१३४ - सुपात्रदाने पुष्पचूलासाध्वीकथानकम् ।।
१४७
विकारे श्लेष्मणो जाते सूरीणामथ कहिंचित् । कटुतिक्तकषायादि यत् तेषां मनसो मतम् ।।१०७।। अन्तरायक्षयात् प्राप्य केवली तदुपानयत् । अजायत चमत्कारः सूरीणामथ मानसे ।।१०८।। अन्येद्यारिदे वारिधारासारं विमुञ्चति । भक्तपानाधुपादाय केवली समुपागमत् ।।१०९।। आः किमेवं कृतं हन्त जलजन्तूपमर्दनम् । सूरिणेवमुपालब्धा केवली प्रत्यभाषत ।।११०।। येषु येषु प्रदेशेषु ज्ञाता परिणतिर्मया । जीवानां जलकायानां तेषु तेष्वहमागमम् ।।१११।। कथं ज्ञातमिदं ज्ञानात् किं ज्ञानं क्षायिकं ननु । श्रुत्वेति तत्पदौ सूरिः प्रणमनित्यवोचत ।।११२।। आशातितः केवली हा कियत्कालमहो मया । अज्ञानपटलच्छन्न - तत्त्वालोकेन दुद्धिया ।।११३।। अतीचाररजोभिर्मे पुरैव मलिनं व्रतम् । अवज्ञायाऽधुना काऽस्तु गतिः केवलिनं पुनः ।।११४ ।। भूत्वाऽसौ मद्विनेयाऽपि विमलं प्राप केवलम् । अतः कर्मभिरेवाहं गुरुर्नान्येन हेतुना ।।११५ ।। शोचन्तमिति तं खेदादवादीदिति केवली । मा विषीद मुनीन्द्र ! त्वं न भवान् गुरुकर्मकः ।।११६।। उत्पत्स्यते भवेऽत्रैव गङ्गामुत्तरतस्तव । विमलं केवलज्ञानमतः किं तप्यसे मुधा ।।११७ ।। तथेति प्रतिपेदे तत् सूरिः केवलिभाषितम् । स्वयं चाऽचिन्तयत् तावत् पालितं सुचिरं व्रतम् ।।११८।। शिष्याश्चाध्यापिता गच्छः स्थापितः स्वव्यवस्थितौ । इति मे कृतकृत्यस्य प्रतिबन्धो भवेऽत्र कः ।।११९ ।। विमृश्येति तदैवागादुपगङ्गं मुनीश्वरः । कः श्रेयसि समीपस्थे मन्दोऽपि हि विलम्बते ।।१२०।। यावदारुरुहुर्नावं सूरयः परतीरगाम् । तावत् तेषामुदीयायावद्यं कर्माऽतिदारुणम् ।।१२१।। तद्वशाद् देवता कापि मिथ्यादृष्टिर्दुराशया । निमज्जयितुमारेभे तां तरी तदधिष्ठिताम् ।।१२२ ।। विवेश यत्र यत्राऽसौ यतिज्येष्ठस्तदन्तरे । मङ्गिन्यास्तत्तदेवाङ्गमन्तःसलिलमब्रुडत् ।।१२३।। किमेतदिति सम्भ्रान्ते जने देवी जगौ दिवि । श्रेयः सम्पत्स्यते भिक्षी पर्यस्तेऽन्तर्नदीह वः ।।१२४ ।। एवमुक्ते धार्मिकेषु हाहाकारपरेष्वपि । वेदान्तर्वतिभिः क्रूरैः सूरिः पर्यस्य पातितः ।।१२५ ।। पतन्तं सा प्रतीयेष त्रिशूलेन दुराशया । दीर्घसंसृतिसङ्गानामकृत्यं वा किमङ्गिनाम् ।।१२६।। शूलदारितदेहोऽथ सूरिरन्तर्जलं ब्रुडन् । चिन्तयामास धिग् धिग् मे देहोत्थैः शोणितोर्मिभिः ।।१२७।। विपद्यन्ते कोटिशोऽमी प्राणिनो जलकायिकाः । मृद्यन्ते द्वीन्द्रियाद्याश्च सङ्घट्टाद् वपुषः परे ।।१२८ ।। अशक्येऽत्र प्रतीकारे का नाम परिदेवना । विचिन्त्येति नमश्चक्रे पञ्चापि परमेष्ठिनः ।।१२९।। ददावालोचनां सिद्धसमक्षं स क्षमानिधिः । क्षमयामास सत्त्वांश्च सत्त्वसारश्चराचरान् ।।१३०।। विशेषतो देवतायां तस्यां साम्यं समुद्वहन् । आरुरोह महात्माऽसौ विशुद्धां ध्यानसन्ततिम् ।।१३१।। क्षपयित्वाऽथ कर्माणि कृत्स्नानि युगपत् तदा । अन्तःकृत्केवली जज्ञे भगवाननिकासुतः ।।१३२।। 8. मङ्गिनी - नौका-नाव । मङ्गो नौशीर्षमस्त्यस्यां मङ्गिनी ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org