________________
१४६
हितोपदेशः । गाथा-१३४ - सुपात्रदाने पुष्पचूलासाध्वीकथानकम् ।।
त्वयि प्रणयिनि स्वामिन् ! स्वप्नदृष्टेषु यद्यहम् । नरकेषु पतिष्यामि किं प्रियत्वं तदा तव ।।८।। न च श्वभ्रनिपातस्य परित्राणेऽपरः प्रभुः । विना जैनेश्वरी दीक्षामक्षेपान्मोक्षदायिनीम् ।।८।। तत् प्रसीदानुमन्यस्व मां व्रताय दयानिधे ! । न क्षमा क्षणमप्यत्र भवे स्थातुं भयानके ।।८२।। एवमत्यन्तनिर्बन्धात् प्रार्थितः पार्थिवस्तया । जगाद युक्तमेवेदं स्वहिताय यदुद्यमः ।।३।। किन्तु जिहेम्यहं देवि ! त्वयि सामान्यभिक्षुवत् । गृहीतमुनिवेषायां पर्यटन्त्यां गृहाद् गृहम् ।।८४।। अतः शुद्धान्तमध्यस्था व्रतं पालय निर्मलम् । आहारैरेषणीयैस्त्वं प्रीणयन्ती निजं वपुः ।।८५।। ऊचे सूरिरपि द्रव्य - क्षेत्राद्धाभाववित् तदा । भद्रे ! मान्यो नरेन्द्रोऽयमेवमप्यस्तु ते व्रतम् ।।८।। आत्मारामत्वमेवात्र भावव्रतनिबन्धनम् । व्यवहारनयापेक्षा शेषा त्वेषा व्यवस्थितिः ।।८७।। तथेति प्रतिपद्याथ सा प्रपेदे मुनिव्रतम् । क्रमेणाऽजनि गीतार्था गुरूणां परिचर्यया ।।८।। तत्राऽन्यदा मदोद्रेकहरं परगृहाशिनाम् । स्थूललक्षोत्कर्षहेतु - दुर्भिक्षमुदपद्यत ।।९।। पीड्यमाने जने तेन फलेन च कुकर्मणाम् । चुचुम्ब चिन्ता चित्तानि महेभ्यानामपि क्रमात् ।।१०।। अनेषणादोषभयाद् भगवन्तोऽनिकासुताः । ततस्ते प्रेषयामासुः स्वं गच्छं स्वस्थभूमिषु ।।११।। क्षीणजङ्घाबलत्वेन विहर्तुं स्वयमक्षमाः । तस्थुरेकाकिनोऽप्याप्तगिरो नैकान्तिका यतः ।।१२।। वीर्याचाराद् भ्रमन्तस्ते भिक्षां गोचरचर्यया । श्राम्यन्ति विश्रसा कस्य न काले बलहारिणी ।।१३।। पश्यन्ती तत् तथा पुष्पचूलार्या कार्यवेदिनी । प्रणम्य सादरं सूरीनिति भक्त्या व्यजिज्ञपत् ।।१४।। जानामि पूज्यपादानामादेशाद् भगवन्निदम् । भुज्यते नायिकालाभो यदुत्सर्गेण साधुभिः ।।१५।। किन्तु सम्पद्यते खेदो महान् गोचरचर्यया । अतोऽहमेव पूज्यानां भक्तपानाद्युपानये ।।१६।। श्रुत्वेति वचनं तस्याश्चिन्तयामासुराशु ते । अपवादाऽऽसेवनेन धिग् धिग् नश्वरजीविताम् ।।१७।। एकाकित्वं पुरस्तावद् द्वितीया नित्यवासिता । आर्यिकालाभभोगोऽयं तृतीयः समुपस्थितः ।।१८।। किन्त्वेवमेव पश्यामि निर्वाहमहमात्मनः । विमृश्येति चिरं सूरि - रनुजज्ञे तथैव ताम् ।।९९।। हृष्टतुष्टा तत: साऽपि वचसा तेन धीमती । यत्नेन महता सर्वं सूरिभ्यः तं प्रयच्छति ।।१००।। शुश्रूषमाणा पुत्रीव पितरं सा मुनीश्वरम् । अमन्यत निजं जन्म कृतकृत्यमनिन्दिता ।।१०१।। प्रासुकैरेषणीयैश्च भक्तपानैर्गुरोर्वपुः । पुष्णती सा पुपोषोचैर्निजं व्रतवपुस्तदा ।।१०२।। वर्द्धयन्ती समाधानं गुरोश्चित्तानुवर्त्तनात् । गुणाय दोषमप्येषा नित्यवासममन्यत ।।१०३।। एवमस्या: प्रसक्ताया वैयावृत्त्ये मुनीशितुः । आत्यन्तिकशुभध्याना - दुदपद्यत केवलम् ।।१०४।। व्यवहारनयं किन्तु मन्यमानः स केवली । कृतकृत्योऽपि भगवानात्मानं व्याकरोजने ।।१०५ ।। पूर्वप्रयुक्तं विनयं निर्वाहयति चाऽञ्जसा । प्रमाणपुरुषाऽऽयत्ता यतः सर्वा व्यवस्थितिः ।।१०६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org