________________
१४४
हितोपदेशः । गाथा-१३४ - सुपात्रदाने पुष्पचूलासाध्वीकथानकम् ।।
नृरत्न ! यानि रत्नानि भवन्ति भुवनेऽपि हि । तेषामपि भवान् भोक्ता किं पुनर्निजनीवृति ।।२७।। तद् भजस्व यथाकामं विश्राणय यथारुचि । यच यस्योचितं वस्तु कुरु तत् तेन सङ्गतम् ।।२८।। पुनरुक्तं ब्रुवाणेषु तेष्वेवमवनीपतिः । आविश्चक्रे निजं भावं वल्मीक इव पन्नगम् ।।२९।। निजवाक्यछले मग्नाः पिच्छिले कलभा इव । ततस्तेऽधोमुखास्तस्थुर्विलक्षा मार्गणा इव ।।३०।। नृपं कदाग्रहात् तस्मात् निवर्त्तयितुमक्षमाः । ययुर्यथागतं सर्वे निर्वेदमलिनाननाः ।।३१।। अथ पुष्पवती देवी दुर्वृत्तं तन्महीपतेः । निशम्य बोधयामास मौलामात्यैरनेकधा ।।३२।। अवज्ञाय नृपस्तेषां वचनं तत् तथा व्यधात् । व्याला इव महीपाला ग्राह्यन्ते केन वा न यम् ।।३३।। योजितं युगलं तञ्च स्वाभिप्रायेण भूभुजा । रेमे, भवस्थिति: कामं स्वभ्यस्ता हि शरीरिणाम् ।।३४।। वैराग्येण च तेनैव विरक्ता भववासत: । प्रवव्राज गुरोर्मूले देवी पुष्पवती तदा ।।३५ ।। कियत्यपि गते काले कालज्ञः पृथिवीपतिः । पुष्पकेतुः पुष्पचूलं पुत्रं राज्ये न्यवीविशत् ।।३६।। अजर्यमर्जयामास वानप्रस्थैः समं स्वयम् । सति शस्त्रक्षमे पुत्रे क्षत्रियाणां क्रमो ह्ययम् ।।३७।। पैतृकं पुष्पचूलोऽपि राज्यं प्राज्यपराक्रमः । पालयामास सौम्येन प्रतापेन च दुःस्सहः ।।३८।। पुष्पचूलाऽपि पञ्चापि शब्दादीन् विषयान् सुखम् । भुञ्जाना पुष्पचूलेन समं स्वैरमरंस्त सा ।।३९।। विहरन्तोऽन्यदा तत्र पुरे परमनैष्ठिकाः । अत्रिकापुत्रनामान: सूरयः समुपागताः ।।४।। तस्थुः प्रतिश्रये क्वापि जन्तुबाधाविवर्जिते । रत्नत्रयधरैधीरैः साधुभिः साधु सेविताः ।।४१।। इतश्च सा पुष्पवती देवी व्रतमुरीकृतम् । प्रतिपाल्य चिरं काले विपद्य त्रिदिवं ययौ ।।४२।। ददर्श चावधेः पूर्व - भवाऽपत्ययुगं निजम् । संसारसुखसर्वस्वं विलसत् तदनारतम् ।।४३।।
आः कथं दुर्गतिपुरी - पान्थावेतौ भविष्यतः । अपरिज्ञाय सर्वज्ञ - शासनं क्लेशनाशनम् ।।४४।। चिन्तयित्वेति विबुधः प्रतिबोधविधित्सया । सुप्तायाः पुष्पचूलायाः प्रतिरात्रमुपेत्य सः ।।४५।। दुर्द्धरध्वान्तसंरुद्धान् दुर्गन्धीनतिभीषणान् । विलीनप्रवहत्पूय - पूर्णवैतरिणीतटान् ।।४६।। असिपत्रवनीपत्र - शस्त्रसम्पातदारुणान् । कृत्रिमाम्भोदनिपत - दुल्काशनिनिरन्तरान् ।।४७।। वैक्रियङ्करसिंहाहि - गृध्र कङ्ककुलाकुलान् । परमाधार्मिकक्लिष्ट - रटनारकसङ्कटान् ।।४८।। कांश्चिद् वज्रानलालीढान् हिमानीसन्ततान् परान् । दर्शयामास नरकान् स्वप्नेऽत्यन्तभयङ्करान् ।।४९।। तांस्तथा भीषणान् प्रेक्ष्य संक्षुब्धा पार्थिवप्रिया । भयभ्रान्ता जजागार व्याजहार च भूभुजे ।।५०।। अथ प्रातर्नृपः शैव - बौद्धकापिलवैष्णवान् । पाखण्डिनः पिण्डयित्वा पप्रच्छ नरकस्थितिम् ।।५१।। अन्यदन्यद् ब्रुवाणास्ते कदागमविमोहिताः । विसंवादिगिरः सर्वे विसृष्टाः पृथिवीभुजा ।।५२।।
गाथा-१३४ 7. कङ्क - कङ्कनामा पक्षीविशेषः, कङ्कते गच्छतीति कङ्कः । - अभि. स्वो. ना. श्लो. १३३३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org