________________
हितोपदेशः । गाथा - १३४ - सुपात्रदाने पुष्पचूलासाध्वीकथानकम् ।।
१४३
।। सुपात्रदाने पुष्पचूलासाध्वीकथानकम् ।।
1
सर्वेषामन्तरीपाणां समुद्राणां च मध्यमे । जम्बूद्वीपाभिधे द्वीपे क्षेत्रेऽत्रैव च भारते । । १ । । अस्ति विस्तीर्णशस्तौघनिरस्तनिखिलाशुभम् । सुरश्रोतस्विनीतीरे पुष्पभद्राभिधं पुरम् ।।२।। उल्लासितरतिर्लोके - रनुल्लङ्घितशासनः । कलावत्प्रीतिदस्तत्र पुष्पकेतुर्महीपतिः ||३|| तस्य पुष्पवती देवी दिव्यैर्मौक्तिकमण्डनैः । अशोभत लतेव : स्मितपुष्पवती सदा ||४|| प्राग्भवारोपितस्याथ तपः कल्पमहीरुहः । राज्यं फलमिव स्वादु बुभुजे स तया सह ।।५ ।। देवी पुष्पवती गर्भं सा बभाराऽन्यदा मुदा । वन्ध्यात्वं हि पुरन्ध्रीणां वैधव्यमिव दुस्सहम् ।।६।। सम्पूर्णदोहदा काले युगलक्षेत्रभूरिव । असूत युगलं कान्ति - जटालितदिगन्तरम् ।।७।। स तस्यां जातयुग्मायां पिप्रिये पृथिवीपतिः । द्विगुणेन हि लाभेन कस्य न स्युर्मनोमुदः ।।८।। उत्साहेनोत्सवेनेव सर्प्यता विदधे नृपः । पुष्पचूलं सुतं नाम्ना पुष्पचूलां च नन्दनीम् ।।९।। प्रयत्नेन पितुर्मातुर्वात्सल्येन च लालितम् । अवर्द्धत मुदा तृप्तमिवापत्ययुगं तयोः । । १० ।। तमीतमोवत् तस्याऽथ शिशुत्वे शान्तिमीयुषि । भानुप्रभेव प्रतिभा मनोनभसि दिद्युते ।। ११ । । विनीतमभियुक्तं च तदपत्ययुगं क्रमात् । कलाजलनिधेः पारं प्रज्ञापोतेन लम्भितम् ।।१२।। पुष्पायुधधनुःकेलिखुरलीसदृशं च तौ । प्रापतुर्योवनं स्वस्वजात्या सस्पृहमीक्षितौ ।। १३ ।। परस्पराश्रया प्रीतिस्तयोः प्रववृधेऽधिकम् । द्वन्द्वेन चरतोर्द्वन्द्वचरयोरिव पत्रिणोः । । १४ । । पुष्पकेतुनरेन्द्रस्य पश्यतस्तत् तथा तयोः । तथाभाव्यवशाञ्चित्ते चिन्तेत्थं समुपस्थिता ।। १५ ।। तुल्यं रूपं वचस्तुल्यं तुल्यं लावण्यमेतयोः । तुल्यः कलाकलापश्च तुल्या च मनसः स्थितिः । । १६ ।। दैवाद् यदि वियोगोऽपि स्यात् परस्परमेतयोः । अत्याहितमपि प्रायस्तदा जायेत कर्हिचित् ।।१७।। श्रूयते च पुराप्येषा व्यवस्था युग्मधर्मिणाम् । तथापि वर्त्तमानास्ते न च दुर्गतिगामिनः ।। १८ ।। योजयिष्ये मिथुनकं ध्रुवं तदहमप्यदः । अन्यान्यसङ्गमेनाऽस्तु मा विडम्बनमेतयोः ।। १९ । । किन्तु लोकापवादो ऽयममर्यादः समुद्रवत् । प्रसरन् वार्यतां केन विततोपायसेतुना ।। २० ।। हुं ज्ञातमथवा कार्येऽनायें मायैव जित्वरी । पातयिष्याम्यतः पौरान् क्वाप्यहं वचनच्छले ।। २१ ।। इति निश्चित्य चित्तेऽर्थमास्थायास्थानमण्डपे । पौरानाह्वाययामास वेत्रपालेन भूपतिः ।। २२ ।। ससम्भ्रमोपनम्रेषु नम्रेष्वेषु क्षितीश्वरः । दृशा मधुरया पश्यन् सप्रसादमदोऽवदत् ।। २३ ।। हो ! पौरजनाः सम्यक् परिभाव्याभिधीयताम् । ममाकरे पुरे कोशे शुद्धान्तेऽन्यत्र वा क्वचित् ।।२४।। यद्यदुत्पद्यते रत्नं तस्य कः स्यात् किल प्रभुः । कार्यतत्त्वं विचार्यैतद् दीयतां मम निर्णयः ।। २५ ।। निबद्धालयो मूर्ध्नि तेऽप्यूचुः सरलाशयाः । उत्तानार्थमिदं देव ! मीमांसामपि नार्हति ।। २६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org