________________
हितोपदेशः । गाथा-१३२, १३३, १३४ - चित्तवित्तपात्रशुद्धिः ।। सुपात्रदाने दृष्टान्ताः ॥
१३५
पिण्डग्रहणं च? इत्याह 'समणरूवधरा' । किंविशिष्टा ज्ञानादयः? श्रमणरूपधारिणः गुणगुणिनोरभेदविवक्षया मुनिमुद्राधारिणः ज्ञानाद्याधाराणां च मुनीनामुपष्टम्भदाने तत्त्वतो ज्ञानादीनामुपष्टम्भ इत्यर्थः ।।१३१ ।। पुनः पात्रदानमेव विशेषतो व्यनक्ति -
आरंभनियत्ताणं छज्जीवनिकायरक्खणरयाणं ।
मुक्खपहसाहगाणं धन्ना जे देंति पत्ताणं ।।१३२।। एवंविधेभ्यो भवाम्भोधियानपात्रेभ्यस्तदुपयोगिवस्तुजातं ये ददति त एव धन्याः । पात्राण्येव विशिनष्टि - आरम्भनिवृत्तेभ्यः, आरम्भः षड्जीवनिकायवधपुरस्सरं पाकाद्यारम्भस्तस्मानिवृत्तेभ्यः, अत एव पृथिव्यादिजीवनिकायरक्षणरतेभ्यः । पुन: किंविशिष्टेभ्यः? मोक्षपथसाधकेभ्यः मुक्तिमार्गवशीकरणप्रवणेभ्यः, एवंविधेभ्यश्च परित्यक्तसकललौकिकव्यापारत्वेन लोकोत्तरपथप्रस्थितेभ्यः सत्पात्रेभ्यो दाने समीचीनमेव दायकानां धन्यत्वम् ।।१३२ ।।
ननु श्रमणोपासका एवास्मिन् दानधर्मेऽधिकृताः, किञ्च श्रमणा अपि केनापि विभागेनैनं भजन्ते न वा? इत्याह -
नियनियविसयविभागं पञ्च संघे चउप्पयारे वि ।
विक्खाया इत्थ इमे सुपत्तदाणंमि दिटुंता ।।१३३।। चतुष्प्रकारेऽपि सङ्घ निजनिजविषयविभागमङ्गीकृत्य स्वं स्वं दानस्थानमधिकृत्य अमी वक्ष्यमाणाः सुपात्रदाने विख्याता एव दृष्टान्ताः श्रूयन्ते ।।१३३ ।।
तद्यथा -
साहूसु बाहुसाहू अजासुं तह य पुष्फचूलऽजा ।
सड्डेसु मूलदेवो चंदणबाला य सड्डीसु ।।१३४ ।। साधुषु श्रमणेषु स्वविभागमधिकृत्य बाहुनामा साधुः सुपात्रदाने दृष्टान्तः, आर्यासु च पुष्पचूलार्या, श्राद्धेषु मूलदेवः, श्राद्धीषु च चन्दनबालेति दृष्टान्तचतुष्टयं । किञ्चित्सम्प्रदायसापेक्षं च बाहुप्रभृतीनामितिवृत्तमतस्तदेव क्रमेणाह -
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org