________________
१३४ हितोपदेशः । गाथा-१२९, १३०, १३१ - अतिथिशब्दस्य व्याख्या ।। चित्तवित्तपात्रशुद्धिः ।।
मुनिजनोक्तदानविधिनैव सर्वं भक्त्या दानादिकं दापयति । काभ्यः ? गीतार्थजननीभगिनीप्रणयिनीप्रभृतिभ्यः, तासामेव तद्दानेऽधिकृतत्वात् ।।१२८ ।। न चैतत् साधुजनदानमल्पसुकृतसम्भारलभ्यमिति दर्शयन्नाह -
परिचत्तसयललोइय - तिहिपव्वमहूसवा महामुणिणो ।
भोयणसमयातिहिणो धन्नाण हवंति गुणनिहिणो ।।१२९।। एवंविधा महामुनयः धन्यानामेव भोजनसमयेऽतिथयो भवन्ति, तेषामतिथित्वमेव व्यनक्ति । किंविशिष्टा मुनयः? परित्यक्तसकललौकिकतिथिपर्वमहोत्सवाः तत्र तिथयःअमावस्यादयः, पर्वाणि-संक्रान्तिसूर्यचन्द्रोपरागादीनि, महोत्सवाः-पाणिपीडनादयः, ते परित्यक्ता यैस्ते तथा । एवंविधा एवातिथिशब्दवाच्याः । यदाह -
तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ।
अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ।।१।। [धर्मसं. गाथा ४० वृत्तौ] पुनः किंविशिष्टाः? गुणनिधयः ज्ञानादिरत्नसेवधयः, एवंविधाश्च धन्यानां सुकृतिनामेव भोजनसमये संविभागग्राहिणो भवन्ति ।।१२९ ।। किञ्च -
धन्नाण दाणबुद्धी धन्नयराणं च देयपरिसुद्धी ।
धन्नतमाणं तु जए जायइ सुहपत्तसंसिद्धी ।।१३०।। इह हि दुःषमादोषदूषिते निखिलेऽपि जगति धन्यानां पुण्यवतामेव तावद् दानबुद्धिरुत्पद्यते, सत्यामपि च दानबुद्धौ धन्यतराणां प्रकृष्टतरधन्यत्वोपेतानां प्राणिनां देयपरिशुद्धिर्देयस्य वस्तुनः परिशुद्धिर्नवकोटिविशुद्धत्वं सङ्घटते, सत्यपि तद्विधे देयवस्तुनि धन्यतमानां प्रकृष्टतमधन्यत्वोपेतानां शुभपात्रसंसिद्धिः स्वपरतारकसत्पात्रसंप्राप्तिः, सोऽयमुत्तरोत्तरपुण्यप्रकर्षप्राप्यश्चित्तवित्तपात्रलक्षणत्रिवेणीसङ्गम इति ।।१३० ।। अपरं च -
कस्सवि कल्लाणगिहस्स चेव गेहंमि समणरूवधरा ।
पञ्चक्खनाणदंसणचरणा पिंडं पडिच्छंति ।।१३१ ।। कस्यापि शतसहस्रेषु लभ्यस्यात एव कल्याणगेहस्य श्रेयःसदनस्यैव गेहे मन्दिरे प्रत्यक्षज्ञानदर्शनचरणानि पिण्डं प्रतीच्छन्ति भक्तपानाद्याददते । अथ कथं ज्ञानादीनां प्रत्यक्षत्वं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org