SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-१२७, १२८ - अपवादपदे दानविधिः ।। श्रमणीनां दानविधिः ।। १३३ सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुञ्चइ अइवायाओ पुणो विसोही न याविरई ।।१।। [ओघनियुक्ति गा. ४७] ॥१२४ ।।१२५।।१२६।। नन्वपवाददानविधिरयं भगवद्भिः स्वमतिविकल्पित एव, किं वाऽसौ सिद्धान्ते क्वाऽप्यस्तीति आशङ्क्याह - 'जं भणियं' - यत् यस्मादिदमागमे भणितम् - फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं । पूईकम्मेण तहा आहाकम्मेण जयणाए ।।१२७।। [ ] अनेन क्रमेणासंस्तरणे गीतार्थश्रमणोपासकः साधुजनं निर्वाहयति, तत्र प्रथमं तावत् प्रासुकैषणीयैराहारैरिति शुद्धो भङ्गः । तदलाभे प्रासुकावभासितैः सिद्धान्तभाषया याचितैरित्यर्थः । अयं पूर्वस्मात् सदोषः, याचितकालाभे तु क्रीतैर्मूल्यक्रीतैः, याचितकदोषात् क्रीतदोषोऽपि महान् । क्रीतैरपि निर्वाहमपश्यन् पूतिकर्म करोति, पूतिकर्मणाप्यनिर्वाहे आधाकर्मणाऽपि यतनया निर्वाहं करोति । किं बहुना ? योऽल्पप्रायश्चित्तो दोषस्तं तमुररीकरोति । सोऽयमागमप्रणीतो विधिरिति । उक्तं च - संथरणंमि असुद्धं दुण्ह वि गिण्हंतदितयाणऽहियं । आउरदिटुंतेणं तं चेव हियं असंथरणे [निशीथ भा. गा. १६५०] ।।१२७।। मुनिजनदानविधिमेव निगमयन्नाह - इय समणाणं दाणं समणीण वि एवमेव सव्वं पि । गीयत्थजणणिभइणीपणइणिपभिईहिं दावेइ ।।१२८॥ इति पूर्वोक्तप्रकारेण श्रमणानां दानमभिहितम् । साम्प्रतमेतदनुयायिनः श्रमणीक्षेत्रस्य द्वितीयस्य दानविधिमाह - 'समणीण वि एवमेव सव्वं पि' श्रमणीनामपि-साध्वीनामपि एवमेव गाथा-१२७ 1.इयं गाथा दर्शनशुद्धिप्रकरणमध्ये - १२८ क्रमाङ्कः तथा अष्टकप्रकरणे २१/८ वृत्तिमध्ये ।। छाया - संस्तरणेऽशुद्धं द्वयोरपि गृह्णद्ददतोरहितम् । आतुरदृष्टान्तेन तदेव हितमसंस्तरणे । तुला - भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्याऽपि दानं हि द्वयोर्लाभाय नाऽन्यथा । - द्वा. द्वा. १/२३ ।। ____ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy