________________
हितोपदेशः । गाथा-१२३ - यतिजनोपयोगीनि दानानि ।।
१३१
भत्तीइ देइ साहूणं सुद्धलेसुल्लसंतरोमंचो ।
उस्सग्गेणं सड्ढो अववायपयंमि पुण एवं ।।१२३।। श्राद्धः-श्रमणोपासकः साधुभ्यः साधयन्ति ज्ञानादिभिर्मुक्तिपदमिति व्युत्पत्त्या साधवः श्रमणाः तेभ्यः, एतानि वस्तूनि ददाति । तान्येवाह - 'भत्तपाणाई' भक्तपानानि अशनपानानि, उपलक्षणं
चैतत् खाद्यस्वाद्यादीनाम् । किंविशिष्टानि ? 'फासुयएसणियाई' 'अहाकडाइं च' तत्र प्रासुकानि निर्जीवानि, एषणीयानि यतिजनोपयोगीनि, सुवर्णादीनि प्रासुकान्यप्यनेषणीयत्वेनानुपादेयानि । तथा यथाकृतानि स्वयोगनिष्पन्नानि न तु साधूद्देशेन संयोजितानि । एतच्च विशेषणत्रयं वस्त्रादिष्वपि संबध्यते । अतो यथा भक्तपानादीनि तथा वस्त्रपात्रकम्बलशय्यासंस्तारप्रमुखानि औषधभैषज्यादीनि च श्राद्धः साधुभ्यो ददाति । तत्र वस्त्रं-कार्पासं, पात्रं-दारुतुम्बादिरूपं, कम्बलमूर्णामयं, शय्या-उपाश्रयः पीठफलकादिमयी वा, संस्तारकोप्यूर्णामय एव, औषधमभयादि, भैषज्यं तेषामेव बहूनां समुदयः । एतत्प्रभृतीन्यन्यान्यपि देशकालोचितानि वस्तूनि पूर्वोक्तविशेषणत्रययुक्तानि संयमशरीरपुष्टिनिमित्तं वितरति तत् किमेकान्तेन प्रासुकान्येव ददाति नेतराणि? न, इत्याह 'सञ्चित्ताई पि अवञ्चसयणपभिईणि' सजीवान्यपि निजापत्यस्वजनस्वजनाऽपत्यप्रभृतीनि । अथ किमर्थमेषां दानमुपादानं च? इत्याह 'पवयणवुड्डिहेउभूयाई' किंविशिष्टान्यपत्यादीनि? प्रवचनवृद्धिहेतुभूतानि जिनशासनोन्नतिनिमित्तानि । विना हि पात्रभूत-शिष्यं न खलु प्रवचनोन्नतिः संपनीपद्यते । कथं ददाति? 'भत्तीइ' भक्तया । सर्वथा धन्यः, पुण्यवान्, कृतकृत्योऽहमिति गाथा-१२३ 1. तुला - “साहूण कप्पणिज्जें, जं नवि दिन्नं कहिंचि किंचि तहिं ।
धीरा जहुत्तकारी, सुसावगा तं न भुंजन्ति ।।१।। वसही-सयणाऽऽसण-भत्त-पाणभेसज्जवत्थपायाई । जइवि न पज्जत्तधणो, थोवावि हु थोवयं दिज्जा ।।२।।" - उप. मा. २३९-२४०, सम्बो. प्र. श्रा. १३९-१४० ।। "समणे निग्गंथे फासुअएसणिज्जेणं असण-पाण-खाइम-साइमेणं, वत्थ-पडिग्गह-कंबल-पायपुंछणेणं, पीढ-फलगसेज्जा-संथारएणं पडिलाभेमाणे विहरइ" ।
- (भग.) यो. शा. ३/८७ वृत्तौ ।। साधूनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं तारयितुमुद्यतानामातीर्थकरगणधरेभ्य आ च तद्दिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्या स्वधनवपनं यथा - उपकारिणां प्रासुकैषणीयानां कल्पनीयानां चाशनादीनां रोगापहारिणां च भेषजादीनां शीतादिवारणार्थानां च वस्त्रादीनां प्रतिलेखनाहेतो रजोहरणादीनां भोजनाद्यर्थं पात्राणाम् औपग्रहिकाणां च दण्डकादीनां निवासार्थमाश्रयाणां दानम् । न हि तदस्ति यद् द्रव्य-क्षेत्र-काल-भावापेक्षयाऽनुपकारकं नाम, तत् सर्वस्वस्यापि दानम्, साधुधर्मोद्यतस्य स्वपुत्र-पुत्र्यादेरपि समर्पणं च किं बहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनम् ।
- यो. शा. ३/११९ वृत्तौ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org