SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १३० हितोपदेशः । गाथा-१२०, १२१, १२२ - यतिजनोपयोगीनि दानानि ।। श्रमणश्रमणीश्रावकश्राविकालक्षणश्चतुर्विधोऽपि वर्ग: 'सङ्घशब्दवाच्यः । किंविशिष्टः? विघ्नसङ्घविघातकृत् दुरितव्रातपातनपटुरिति ।।११९ ।। ननु यदि श्रमणा निर्ग्रन्थास्ततस्तेषां दानं क्वोपयुज्यते? येन सप्तक्षेत्र्यां प्रथमं तदुपादानमित्याशङ्क्याह - तत्थ य जिणिन्दसमणा भयवंतो जइ वि हुंति निग्गंथा । तह वि वयकायरक्खानिमित्तमरिहंति दाणमिणं ।।१२०।। तत्र तेषु सप्तसु क्षेत्रेषु जिनेन्द्रश्रमणा: जैनयतयो भगवन्तो यद्यपि निर्ग्रन्थाः सबाह्याभ्यन्तरग्रन्थरहिता भवन्ति, तत्र बाह्यो ग्रन्थो धनादिषु नवसु मूर्छालक्षणः, आभ्यन्तरश्च मिथ्यात्ववेदत्रयहास्यादिषट्ककषायचतुष्टयरूपः । यदाह - मिच्छत्तं वेयतियं हासाईछक्कगं च नायव्वं । कोहाईण चउक्कं चउदस अब्धेितरा गंथा ।।१।। [प्रवचनसारो. गा. ७२१] तदेवं द्विविधेनापि ग्रन्थेन रहिता निर्ग्रन्था एव ते । तथापि व्रतकायरक्षानिमित्तमिदं वक्ष्यमाणलक्षणं दानमर्हन्ति अस्य दानस्य योग्या भवन्ति । व्रतैरुपलक्षितः कायो व्रतकायः, यदि वा व्रतानि-प्राणातिपातविरत्यादीनि पृथगेव, कायश्च तदाधारं शरीरं, तद्रक्षानिमित्तम्, विना ह्याहारादीनि न शरीरं निर्वहति, तदभावे च दुष्पाल्य एव संयमः ।।१२० ।। यद् वा ते दानमर्हन्ति तदेव दर्शयति - फासुयएसणियाइं अहाकडाइं च भत्तपाणाणि । तह वत्थपत्तकंबल-सिज्जासंथारपमुहाई ।।१२१।। ओसहभेसज्जाइं तह पवयणवुड्डिहेउभूयाई । सञ्चित्ताई पि अवश्य-सयणपभिईणि अणवरयं ।।१२२।। श्रद्धालुतां श्रातिपदार्थचिन्तनाद्, धनानि पात्रेषुवपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा ।।२।। __. यो. शा. ३/११९ वृत्तौ । धर्म सं. अधि. २/५९ वृत्तौ ।। 3. सङ्घ-“संहन्यते इति सङ्घः", निघोद्धसङ्घ' - ।।५/३/३६ इति अलि'साधुः, यथा - श्रमणादिश्चतुर्विधः सङ्घः । -- अभि. स्वो. ना. श्लो. १४१२ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy