________________
हितोपदेशः । गाथा-११७, ११८, ११९ - भक्तिदानस्य स्वरूपम् ।। सप्त क्षेत्राणि ।। सङ्घस्य स्वरूपम् ।। १२९
एवं दानद्वारस्य भेदत्रयमुपदर्थ्य चतुर्थं प्रस्तावयन्नाह -
तुरियं तु भत्तिदाणं तं पुण पत्तेसु चेव दिजंतं ।
होइ सिवसुखफलयं पत्ताणि य सत्त खित्ताणि ।।११७।। तुर्यं चतुर्थं भक्तिदानाख्यं दानम् । तत् पुनर्दीयमानं सत् शिवसौख्यफलदं भवति । मोक्षसुखलक्षणेन फलेन फलति । अथ क्व दीयमानमिदमेवंफलं स्याद् ? इत्याह पात्रेषु । कानि पुनस्तानि पात्राणि? उच्यते पात्राणि सप्त क्षेत्राणि वक्ष्यमाणलक्षणानि पात्रत्वेनावगन्तव्यानीति ।।११७।। 'सप्तक्षेत्रीमेवोपक्षिपति -
चाउव्वनो संघो जिणागमो जिणहरं च जिणबिम्बं ।
एएसु वित्तबीयं नियं कुटुंबीहिं वुत्तव्वं ।।११८।। चातुर्वर्णश्चतुःप्रकारो वक्ष्यमाणलक्षणसङ्घ इति चत्वारि क्षेत्राणि । तथा जिनागमः पञ्चमं क्षेत्रम् । जिनगृहं षष्ठं क्षेत्रम् । जिनबिम्बं च सप्तमं क्षेत्रमिति । एतेषु सप्तस्वपि क्षेत्रेषु कुटुम्बिभिहमेधिभिनिजं स्वकीयं वित्तलक्षणं बीजं वपनीयं व्ययनीयमित्यर्थः, समुचितश्च कुटुम्बिनां क्षेत्रे बीजवापः ।।११८।। सङ्घस्य चातुर्वर्ण्य व्यनक्ति -
समणा समणीओ य सावया साविया तहा ।
एसो चउविहो संघो विग्घसंघविघायणो ।।११९ ।। श्रमणाः । श्रमू तपसि खेदे च [प्रा. धा. १२०४, सि. है. धा. १२३३] । श्राम्यन्ति तपस्यन्ति परमपदायेति श्रमणाः निर्ग्रन्थास्तपस्विनः । श्रमण्योऽपि तथैव । तथा शृण्वन्ति समाकर्णयन्ति सद्गुरुमुखारविन्दात् यतिश्रावकसामाचारीमिति श्रावकाः श्राविका अप्येवमेव । एवमेषः गाथा-११८ 1. तुला - सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री । जिनबिम्ब-जिनभवना-ऽऽगम-साधु-साध्वी-श्रावक
श्राविकालक्षणा, तस्यां न्यायोपात्तं धनं वपन् निक्षिपन्, क्षेत्रे हि बीजस्य वपनमुचितमित्युक्तं वपन्निति, वपनमिति क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्र्यामित्युक्तम् । क्षेत्रत्वं च सप्तानां रूढमेव । - यो. शा. ३/११९ वृत्तौ । धर्म सं.
अधि. २/५९ वृत्तौ ।। गाथा-११९ 1. श्रमण - श्राम्यति तपसेति श्रमणः, श्रवणोऽपि, नन्द्यादित्वादनः ।-अभि. स्वो. ना. श्लो. ७५ । 2. श्रावक - "संपत्तदंसणाई, पइदिअहं जइजणा सुणेई अ । सामायारि परमं, जो खलुतं सावगं बिंति ।।१।।।
__- सम्बो. प्र.५/१ गा. ९६१ । श्रा. प्र. गा.२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org