________________
१२८
हितोपदेशः । गाथा-११६ - श्रुतस्य अवज्ञाविषये माषतुषकथानकम् ।।
॥ श्रुतस्य अवज्ञाविषये माषतुषकथानकम् ।। श्रूयते हि पुरा कोऽपि सूरिवरस्तथाविधज्ञानावरणक्षयोपशमवशात् युगप्रधानागमः विशेषतश्च व्याख्यालब्धिमान् । स च कदाचित् सूत्रार्थपौरुषीपरिसमाप्तौ सुतरां परिश्रान्तः । सिंहासनात् समुत्थाय क्षणं विश्रामकाम्यया यावत् शय्यामशिश्रियत् तावत् कुतोऽपि देशान्तरादुपनतानामपूर्वश्रमणोपासकानां धर्मोपदेशाऽऽलापादिनिमित्तमासनयतिभिरुत्थापितोऽनिच्छन्नपि समुत्थाय तदुचितालापादि च विधाय यावत् पुनर्विश्रामाय विविक्तं प्रत्यचलत् तावत् तेन दृष्टः स्व एव भ्राता तथाविधज्ञानावरणनिबिडत्वेनानधीतविशेषशास्त्र: केवलं परमेष्ठिपदानुस्मरणमात्रव्यापृतः क्वचित् कोणैकदेशे धर्मध्यानतत्परः । तं च तथा दृष्ट्वा स्थितमस्य चेतसि यथा नूनं धन्योऽयं मुनिरनधीतशास्त्रोऽपि मत्सकाशात् । य एवं स्वेच्छया सुखं विचरति । मम पुनरिदं ज्ञानमेव बन्धनप्रायमजायत । यद्वशादहं क्षणमात्रमपि न सुखासिकामधिगच्छामि । तत्प्रत्ययं च तेन तदा निबद्धं निबिडं ज्ञानावरणं कर्म । कालान्तरेऽपि च तस्यार्थस्यानालोचिताप्रतिक्रान्तस्तथैव पर्यन्ताराधनापुरस्सरं कृत्वा कालमुत्पन्नः सुरालये । तत्रोपभुज्य च निरुपमा सुरसम्पदं किञ्चिदवशिष्टसुकृतप्राग्भारः समुत्पन्नः पुत्रत्वेन कस्यापि महेभ्यस्य कुले । तत्र च परिशीलितस्वकुलोचितः सकलकलाकलापः संप्राप्तः सकलयौवतोन्मादनं यौवनम् । पुराऽपि च स्वभ्यस्ततया जैनधर्मस्य कदाचित् गीतार्थगुरुमुखादाकर्ण्य धर्मदेशनामुत्पन्नभववैराग्यस्तृणवदवगणय्य सम्पदमनवद्यां सर्वविरतिं प्रतिपेदे । पाठयितुमुपक्रान्तश्च गुरुभिः षड्जीवनिकादिकं सामाचारीसूत्रम् । अत्रान्तरे च दत्तसङ्केतमिव प्राग्भवोपार्जितमुदीर्णमस्याशुभं ज्ञानावरणं कर्म तद्वशाच गृहस्थावस्थाऽधीतमपि यत् किमप्यासीत् तदप्येकपदेऽपि विस्मृतम् । कृतप्रयत्नशतैरपि गुरुस्थविरादिभिः सामायिकसूत्रमात्रमपि न ग्राहयितुं पारितः । तब तथाविधमतिदारुणमुदीर्णमस्य कविलोक्य परमकारुणिकैश्चिन्तितं गुरुभिः यदस्य किमप्यल्पाक्षरमायतिहितं वचनमुपदिश्यते । यदि पुनस्तदत्यन्तपरिशीलनादस्य कर्महासो भवतीति विमृश्य 'मा रोषी: मा च तौषी रिति तं प्रत्युपदिष्टम् । सोऽपि परमप्रमोदमेदुरमनाः सिद्धवचनमिव तदाचार्यवचनं शिरसा समादाय परिशीलयितुमुपक्रान्त नक्तंदिनोद्घोषपरस्यापि तस्य दारुणत्वात् कर्मणस्तदपि पदं 'माषतुष' इति रूपेण परिणतम् । तद्विधमेव च परिशीलयंस्तदेकतानमानसतया स्थानास्थानविभागमकलयन्नरपतिपथेऽपि संचरंस्तदेवोद्घोषयति । कदाचिश्च कर्मवशात्तदपि पदं विस्मरति । अत्रान्तरे च चतुष्पथमिलितैः पौरडिम्भरूपैः कृततुमुलैः सोपहासमुदीर्यते । अहो समायातः सोऽयं माषतुषाभिधानो मुनिः । तदाकर्णनाञ्च स महात्मा तेषु परमं प्रीतिप्रकर्षमुद्वहन्त्रहो निष्कृत्रिमबन्धुकल्पा ममैते बालकाः यैर्जीवितव्यमिव सर्वस्वमिव परमनिधानमिव ममेदं पदं विस्मृतं स्मार्यते इति निरुपमक्षमासमाहितमनसस्तस्य महामुनेस्तदेव पदं परिशीलयतस्तथा कथमपि शुभध्यानप्रकर्षः प्रादुरभूत् । यथा क्षपकश्रेणिमधिरुह्य समूलमुन्मूल्य च घातिकर्मचतुष्टयं लोकालोकप्रकाशकं विमलकेवलज्ञानमासादितवान् । अत: कियन्तः किलैवंविधा महात्मानो भाविनः । ये निरुपमक्षमाबलेन गलहस्तितमोहबला: कृतकृत्यतां प्रपश्यन्ते(न्ति), तस्मदादावेव श्रुतस्य श्रुतधराणां चावज्ञां मनसाऽपि न कुर्वीत, एवंविधविपाकरूपत्वादस्याः । केवलममन्दानन्दमेदुरैः श्रुतवचनमनुमोदनीयमेवेति ।।११६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org